________________
योगशास्त्रम्
॥३६६।
पश्येत्यनेन मुग्धबुद्धिमभिमुखयति । सङ्गमको नामेति सङ्गमकाभिधानः वत्सपालो वत्सपालनजीवकः, TR
तृतीय चमत्कारकरी सम्पदं प्राप, कुतः ? मुनिदानप्रभावतः । अत्र सङ्गमकस्य पारम्पर्येण मोक्षोऽपि फलमस्ति, तथापि
प्रकाशा प्रासङ्गिकफलाभिधानरभसेन स नोक्तः । सङ्गमकचरितं च सम्प्रदायगम्यम् । स चायम्___ मगधेष्वस्ति निःसीमरत्नप्राग्भारभासुरम् । पुरं समुद्रवद्राजगृहं कुलगृहं श्रियः ॥१॥राजा पुरं तदपरैरनुल्लवितशासनः । शशास श्रेणिकः पाकशासनः स्वःपुरीमिव ॥ २ ॥ शालिग्रामेऽथ धन्येति काचिदुच्छिमवंशिका । बालं सङ्गमकं नाम समादाय समाययौ ॥ ३॥ वसंस्तत्र स पौराणां वत्सरूपाण्यचारयत् । अनुरूपा ह्यसौ रोरबालानां मृदुजीविका ॥ ४ ॥ अथापरेयुः संजाते तत्र कस्मिंश्चिदुत्सवे । पायसं सङ्गमोऽपश्यद् भुज्यमानं गृहे गृहे ॥ ५ ॥ गत्वा स्वगेहे जननीं ययाचे सोपि पायसम् । साऽप्युवाच दरिद्राऽस्मि मद्गेहे पायसं कुतः१।६। बालेन तेनाज्ञतया याच्यमाना मुहुर्मुहुः । स्मरन्ती पूर्वविभवं तारतारं रुरोद सा ॥ ७॥ तस्या रुदितदुःखेनानुविद्धहृदया इव । आगत्य प्रातिवेश्मिन्यः पप्रच्छुर्दुःखकारणम् ॥ ८॥ ताभ्योऽभ्यधत्त सा दुःखकारणं गद्गदाक्षरैः क्षीराद्यदुश्च तास्तस्यै साऽपचत् पायस ततः ॥९॥ खण्डाज्यपायसैभृत्वा स्थालं बालस्य तस्य सा। आर्पयत्प्रययौ चान्तह कार्येण केनचित् ॥ १० ॥ अत्रान्तरे च कोऽप्यागान्मुनिर्मासमुपोषितः पारणाय भवोदन्वत्तारणायास्य नौरिव ॥ ११ ॥ सोऽचिन्तयदिदं चिन्तामाणिक्यमिव चेतनम् । जङ्गमः कल्पशोखीव कामधेनुरिवापशुः ॥१२॥ साधु साधु महासाधुर्मद्भाग्यैरयमाययौ । कुतोऽन्यथा वराकस्य ममेदृक्पात्रसङ्गमः ॥१३॥ भाग्योदयेन केनापि ममाद्य समपद्यत । चित्तं वित्तं च पात्रं च त्रिवेणीसङ्गमो ह्ययम् ॥ १४ ॥ इत्यसौ स्थालमुत्पाटय पायसं साधवे
॥३६६॥