________________
योगशास्त्रम्
तृतीय प्रकाशा
॥३६५।।
कारिक्षणः ॥४१॥ दानं स्यात्सफलं पात्रे कुपात्रापात्रयोरपि । पात्रे धर्माय तच्च स्यादधर्माय तदन्ययोः।४। पयःपानं भुजङ्गानां यथा विषविवृद्धये । कुपात्रापात्रयोर्दानं तद्वद्भवविवृद्धये ॥४३॥ स्वादु क्षीरं यथा क्षिप्तं कटवलावुनि दुष्यति । दानं दत्त शुद्धमपि कुपात्रापात्रयोस्तथा ॥४४॥ दत्ता कुपात्रापात्राभ्यां सर्वोळपि फलाय न । पात्राय दत्तो ग्रासोऽपि श्रद्धया स्यान्महाफलः ॥४५॥ इयं मोक्षफले दाने पात्रापात्रविचारणा । दयादानं तु तत्त्वज्ञैः कुत्रापि न निषिध्यते ॥ ४६ ॥ शुद्धयशुद्धिकृता भङ्गाश्चत्वारः पात्रदानयोः। आद्यः शुद्धो द्वितीयो वैकल्पिकोऽन्यौ तु निष्फलौ ॥४७॥ दानेन भोगानामोतीत्यविमृश्यैव भाष्यते । अनर्घ्यपात्रदानस्य क्षुद्रा भोगाः कियत्फलम् ? ॥४८॥ पात्रदाने फलं मुख्यं मोक्षः सस्यं कृषेरिव । पलालमिव भोगास्तु फलं स्यादानुषङ्गिकम् ॥ ४९ ॥ जिनानां दानदातारः प्रथमे मोक्षगामिनः । धनादयो दानधर्माबोधिबीजमुपाजयन् ।५० जिनानां पारणे भिक्षादातणां मन्दिराजिरे । हाँत्कर्षपराः सद्यः पुष्पवृष्टिं व्यधुः सुराः॥५१॥ इत्यतिथिसंविभागवतमेतदुदीरितं प्रपञ्चेन । देयादेये पात्रापात्रे ज्ञात्वा यथोचितं कुर्यात् ॥ ५२ ॥ ८७ ॥ ___ यद्यपि विवेकिनः श्रद्धावतः सत्पात्रदाने साक्षात्पारम्पर्येण वा मोक्षः फलं, तथापि मुग्धजनानुग्रहार्थ पात्रदानस्य प्रासङ्गिकं फलमाहपश्य सङ्गमको नाम सम्पदं वत्सपालकः । चमत्कारकरी प्राप मुनिदानप्रभावतः ॥८॥ (१) न त्वपात्रकुपात्रयोः इति वा पाठः