________________
योग
तृतीय प्रकाशा
शास्त्रम्
lઉછા
पागेभ्यो दातव्यानि विपश्चिता ॥२३॥ ज्ञानदर्शनचारित्ररूपरत्नत्रयान्विताः । समितीः पञ्च बिभ्राणा गुप्तित्रि तयशाालिनः ॥२४ ॥ महाव्रतमहाभारधरणैकधुरन्धराः । परीषहोपसर्गारिचमूजयमहाभटाः ॥ २५ ॥ निर्ममत्वाः शरीरेऽपि किमुतान्येषु वस्तुषु ? । धर्मोपकरण मुक्त्वा परित्यक्तपरिग्रहाः ॥ २६ ॥ द्विचत्वारिंशता दोषैरदुष्टं भैक्षमात्रकम् । आददाना वपुर्धर्मयात्रामात्रप्रवृत्तये ॥ २७ ॥ नवगुप्तिसनाथेन ब्रह्मचर्येण भूषिताः। दन्तशोधनमात्रेऽपि परस्वे विगतस्पृहाः ॥ २८ ॥ मानापमानयोर्लाभालाभयोः सुखदुःखयोः। प्रशंसानिन्दयोहर्षशोकयोस्तुल्यवृत्तयः ॥२९॥ कृतकारितानुमतिप्रभेदारम्भवर्जिताः । मोक्षेकतानमनसो यतयः पात्रमुत्तमम् ॥३०॥ सम्यग्दनिवन्तस्तु देशचारित्रयोगिनः । यतिधर्मेच्छवः पानं मध्यमं गृहमेधिनः ॥३१।। सम्यक्त्वमात्रसन्तुष्टा ब्रतशीलेषु निःसहाः । तीर्थप्रभावनोद्युक्ता जघन्य पात्रमुच्यते ॥३२॥ कुशास्त्रश्रवणोत्पन्नवैराग्यानिष्परिग्रहाः । ब्रह्मचर्यरताः स्तेयमृषाहिंसापराङ्मुखाः ॥३३॥ घोरव्रता मौनजुषः कन्दमूलफलाशिनः । शिलोच्छवृत्तयः पत्रभोजिनो भैक्षजीविनः ॥३४॥ कषायवत्रा निर्वस्त्राः शिखामौण्डचजटाधराः। एकदण्डस्त्रिदण्डा वा गृहारण्यनिवासिनः ॥ ३५ ॥ पञ्चाग्निसाधका ग्रीष्मे गलन्तीधारिणो हिमे । भस्माङ्गरागाः खट्वाङ्गकपालास्थिविभूषणाः ॥ ३६॥ स्वबुद्धया धर्मवन्तोऽपि मिथ्यादर्शनदृषिताः । जिनधर्मद्विषो मूढाः कुपानं स्युः कुतीर्थिनः ॥ ३७ ॥ प्राणिप्राणापहरणा मृषावादपरायणाः । परस्वहरणोयुक्ताः प्रकामं कामगर्दभाः ॥३८॥ परिग्रहारम्भरता न सन्तुष्टाः कदाचन । मांसाशिनो मधरताः कोपनाः कलहप्रियाः ॥ ३९ ॥ कुशास्त्रमात्रपाठेन सदा पण्डितमानिनः । तत्त्वतो नास्तिक प्राया अपात्रमिति शंसिताः॥४०॥ इत्यपात्रं कुपानं च परिहत्य विवेकिनः । पात्रदाने प्रवर्तन्ते सुधियो मोक्ष