________________
योगशाखम्
हतीय प्रकाशा
॥३६३।।
धार्मिकः ॥६॥ यस्य अपाने तीर्थानि मुखेनानाति याऽशुचिम् । तां मन्वानाः पवित्रां गां धर्माय ददते जडाः ॥७॥ प्रत्यहं दुह्यमानायां यस्यां वत्सः प्रपीडयते । खुरादिभिर्जन्तुघ्नीं तां दद्याद्गां श्रेयसे कथम् ॥८॥ स्वर्णमयी रूप्यमयी तिलमय्याज्यमय्यपि । विभज्य भुज्यते धेनुस्तदातुः किं फलं भवेत् ? ॥९॥ कामगद्धकरी बन्धुस्नेहद्रुमदवानलः । कलेः कलितरुर्दुर्गतिद्वारकुश्चिका ॥१०॥ मोक्षद्वारार्गला धर्मधनचौरी विपत्करी । या कन्या दीयते साऽपि श्रेयसे कोऽयमागमः १ ॥११॥ विवाहसमये मूर्धर्मबुद्धया विधीयते । यत्तु यौतुकदानं तत्स्या द्भस्मनि हुतोपमम् ॥१२॥ यत् संक्रान्तौ व्यतीपाते वैधते पर्वणोरपि । दानं प्रवर्तितं लुब्धैमुग्धसंमोहनं हि तत् ॥१॥ मृतस्य तृप्त्यै ये दानं तन्वन्ति तनुबुद्धयः । ते हि सिञ्चन्ति मुशलं सलिलैः पल्लवेच्छया ॥ १४ ॥ विप्रेभ्यो भोजने दत्ते प्रीयन्ते पितरो यदि । एकस्मिन् भुक्तवत्यन्यः पुष्टः किं न भवेदिह? ॥ १५ ॥ अपत्यदत्तं चेदानं पितृणां पापमुक्तये । पुगेण तप्ते तपसि तदा मुक्ति पिताऽऽप्नुयात् ॥ १६ ॥ गङ्गागयादौ दानेन तरन्ति पितरो यदि । तत्रोक्ष्यन्तां प्ररोहाय गृहे दग्धा मास्तदा ॥ १७ ॥ गतानुगतिकैः क्लुप्तं न दद्यादुपयाचितम् । फलन्ति हन्त ! पुण्यानि पुण्याभावे मुधैव तत् ॥ १८ ॥ न कोऽपि शक्यते त्रातुं पूर्णे काले सुरैरपि । दत्तोपयाचितैस्तेषां बिम्बैखाणं महाद्भुतम् ॥१९॥ महोशं वा महाज वा श्रोत्रियायोपकल्पयन् । दाताऽत्मानं च पात्रं च पातयेन्नरकावटे ॥२०॥ ददद्धर्मधिया दाता न तथाऽधेन लिप्यते । जाननपि यथा दोषं ग्रहीता मांसलोलुपः ॥२१॥ अपात्रप्राणिनो हत्वा पात्रं पुष्णन्ति ये पुनः । अनेकमेकघातेन ते प्रीणन्ति भुजङ्गमम् ॥२२॥ न स्वर्णादीनि दानानि देयानीत्यर्हतां मतम् । अन्नादीन्यपि
॥३६३॥