________________
योगशास्त्रम्
तृतीय
प्रकाशा
રેકરા
मुखानन्तकमपरो भाजनं प्रत्यवेक्षते, माऽन्तरायदोषाः स्थापनादोषा वा भूवनिति । स च यदि प्रथमायां पौरुष्यां निमन्त्रयते, अस्ति च नमस्कारसहितप्रत्याख्यानी, ततस्तद्गृह्यते । अथ नास्त्यसौ तदा न गृह्यते, यतस्तद्वोढव्यं भवति । यदि पुनर्घनं लगेत् , तदा गृह्यते संस्थाप्यते च, यो वा उद्घाटपौरुष्यां पारयति पारणकवानन्यो वा तस्मै तद्दीयते, पश्चात्तेन श्रावकेण समं सङ्घाटको व्रजति, एको न वर्त्तते प्रेषयितुं, साधुपुरतः श्रावकस्तु मार्गे गच्छति ततोऽसौ गृहं नीत्वा तावासनेनोपनिमन्त्रयते, यदि निविशेते, तदा भव्यम्, अथ न निविशेते, तथापि विनयप्रयुक्तो भवति, ततोऽसौ भक्तं पानं च स्वयमेव ददाति, भाजनं वा धारयति, स्थित एवा (एव वा) स्ते यावद्दीयते। साधू अपि पश्चात्कर्मपरिहरणार्थ सावशेष गृहणीतः, ततो वन्दित्वा विसर्जयति, अनुगच्छति कतिचित्पदानि, ततः स्वयं भुङ्क्ते ॥ यदि पुनस्तत्र ग्रामादौ साधवो न भवन्ति तदा भोजनवेलायां द्वारावलोकनं करोति, विशुद्धभावेन च चिन्तयति-"यदि साधवोऽभविष्यन् तदा निस्तारितोऽहमभविष्यमिति” । एष पोषधपारणके विधिः। अन्यदा तु दत्त्वा भुङ्क्ते, भुक्त्वा वा ददातीति । अत्रान्तरश्लोकाः___ अनादीनामिदं दानमुक्तं धर्मोपकारिणाम् । धर्मोपकारबाह्यानां स्वर्णादीनां न तन्मतम् ॥१॥ दत्तेन येन दीप्यन्ते क्रोधलोभस्मरादयः। न तत्स्वर्ण चरित्रिभ्यो दद्याच्चारित्रनाशनम् ॥२॥ यस्यां विदार्यमाणायां म्रियन्ते जन्तुराशयः। क्षितेस्तस्याः प्रशंसन्ति न दानं करुणापराः ॥३॥ यद्यच्छस्त्रं महाहिस्त्रं तत्तयेन विधीयते । तदहिखमना लोहं कथं दद्याद्विचक्षणः ॥४॥ संमूर्च्छन्ति सदा यत्र भूयांसस्त्रसजन्तवः। तेषां तिलानां को दानं मनागप्यनुमन्यते ? ॥५॥ दद्यादर्द्धप्रसूतां गां यो हि पुण्याय पर्वणि । म्रियमाणामिव हहा ! वर्ण्यते सोऽपि
॥३६२॥