________________
पोगशास्त्रम्
तृतीय प्रकाशः
॥३६१॥
प्रतिषिद्धत्वाच्छयनासनादावुपयोगः । शय्यासंस्तारकयोश्च शीतोष्णकालयोः शयनादावुपयोगः। वसतिश्च निवासार्थ यतीनामत्यन्तोपकारिणी । यदाहजो देइ उवस्सयं मुणिवराण गगुणजोगधारीण । तेणं दिण्णा वत्थण्णपाणसयणासणविकप्पा ॥१॥ जं तत्थ ठियाण भवे सव्वेसिं तेण तेसिमुवओगो । रक्खपरिपालणा वि, अतो दिण्णा एव ते सव्वे ॥२॥ ३सीयायवचोराणं दंसाणं तह य बालमसगाणं । रक्खंतो मुणिवसभे सुरलोयसुहं समज्जिणइ ॥ ३॥
एवं यदन्यदप्यौधिकमौपग्रहिकं वा धर्मोपकरणं तत्साधूनां धारयतां न दोषः। तद्दातणां तु सुतरां गुण एव ॥ उपकरणमानं तुजिष्णा बारसरुवाओ थेरा चोइसरूविणो । अज्जाणं पणवीसं तु अओ उड्ढे उवग्गहो ॥ १॥
इत्याद्यागमादवगन्तव्य, इह तु ग्रन्थगौरवभयान प्रतन्यते । इह वृद्धोक्ता सामाचारी-श्रावकेण पोषधं पारयता नियमात्साधुभ्यो दत्त्वा भोक्तव्यम् । कथम् ? यदा भोजनकालो भवति तदा आत्मनो विभूषां कृत्वा प्रतिश्रयं गत्वा साधून् निमन्त्रयते; भिक्षां गृहणीतेति ॥ साधूनां च तं प्रति का प्रतिपत्तिः ? उच्यते-तदैकः पटलकमन्यो (१) यो ददात्युपाश्रयं मुनिवराणामनेकगुणयोगधारिणाम् । तेन दत्ता वस्त्रानपानशयनासनविकल्पाः ॥१॥ (२) यत्तत्र स्थितानां भवेत् सर्वेषां तेन तेषामुपयोगः। रक्षापरिपालना अपि, अतो दत्ता एव ते सर्वे ॥२॥ (३) शीतातपचौरेभ्यो दंशेभ्यस्तथा च बालमशकेभ्यः । रक्षन् मुनिवृषभान् सुरलोकसुख समर्जति ॥३॥ (४) जिना द्वादशरुपाः स्थविराश्चतुर्दशरूपिणः। आर्याणां पञ्चविंशतिस्तु अतः ऊर्ध्वमुपग्रह (१)
॥३६॥