________________
योग
तृतीय
शास्त्रम
प्रकाशा
॥३६॥
परमार्ष च
सेवेमि जे अईया जे अणागया जे अ वट्टमाणां ते सव्वे सोवहिधम्मो देसियव्यो त्ति कटु एगं देवसमादाय निक्खमिसु निक्खामंति निक्खमिस्संति वा।
प्रवज्योत्तरकालं च सर्वबाधासहत्वान्न वस्त्रेण प्रयोजनमिति यथाकथञ्चित्तदपैतु नाम । गुरूलिङ्गानुवर्तनं च तच्छिष्याणां यदुक्तं, तदैरावणानुकरणमिव सामान्यकरिणाम् । कि च तीर्थकरानुकारमिच्छद्भिर्मठे निवसनमाधाकर्मिकादिपरिभोगस्तैलाभ्यङ्गोऽङ्गारशकटीसेवनं तृणपटीपरिधान कमण्डलुधारणं बहुसाधुमध्ये निवासश्छद्मस्थानां धर्मदेशनायाः करणं शिष्यशिष्यादीक्षादिकं सर्वमविधेयं स्यात् तच्च कुर्वन्ति ।
कम्बलस्य च वर्षासु बहिनिर्गतानां तात्कालिकवृष्टावकायरक्षणमुपयोगः, बालवृद्धग्लाननिमित्तं बर्षत्यपि जलधरे भिक्षायै निःसरतां कम्बलावृतदेहानां न तथाविधाप्कायविराधना, उच्चारप्रस्त्रवणादिपीडितानां कम्बला वृतदेहानां गच्छतामपि न तथाविधा विराधना । छत्राधाच्छादितानां कम्बलमन्तरेणापि गच्छतां को दोष? इति चेत् न 'छत्तस्स य धारणहाए' इत्यागमेन च्छत्रस्य प्रतिषिद्धत्वात् ॥ रजोहरणं पुनः साक्षाज्जीवरक्षार्थ प्रतिलेखना कारित्वादुपयोगीति कस्तत्र विवादं कुर्यात् ? । मुखवस्त्रमपि सम्पातिमजीवरक्षणादुष्णमुखवातविराध्यमानबाह्यवायुकायजीवरक्षणान्मुखे धूलिप्रवेशरक्षणाच्चोपयोगि। पीठफलकयोर्वर्षासु पनककुन्थावदिसंसक्तायां भुवि भूशयनस्य
(१) सेवे येऽतीता येऽनागता ये च वर्तमानास्ते सर्वे सोपधिधों देष्टव्य इति कृत्वा एकं देवदृष्यमादाय निरक्रमिषुः निष्क्रामन्ति निष्क्रमिष्यन्ति वा ।
॥३६॥