________________
योगशास्त्रम्
॥३५९॥
36OOKS ORDE
पात्रस्याप्युपयोगः, अशुद्धस्यान्नादेर्ग्रहणेन तत्परिष्ठापनं, संसक्तान्नस्याविराधनात् । प्रमादात्पूतरकसहितस्य तण्डुलोकाग्रहणे सति तत्परिष्ठापनामुखं च । एवमादयोऽन्येऽपि पात्रग्रहणे गुणाः ।
यदाहु:
१छक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पन्नत्तं । जे अ गुणा संभोए हवंति ते पायगहणे वि ॥ १ ॥ अतरंतबालबुड्ढा सेहाऽऽएसा गुरुअसहवग्गे । साहारणावग्गहालद्धिकारणा पायग्गहणं तु ॥२॥ ननु तीर्थकराणां वस्त्रपात्रपरिभोगो न श्रूयते, तीर्थकरचरितानुकारश्च तच्छिष्याणां युक्तः । वदन्ति हि “३जारिसयं गुरूलिङ्गं सीसेण वि तारिसेण हविअव्वम् " इति । मैवं वोचः - अच्छिद्रपाणयस्तीर्थकराः, अपि चन्द्रादित्यौ यावच्छिखा गच्छति, न तु पानीयबिन्दुरप्यधः पतति; चतुर्विधज्ञानबलाच्च ते संसक्तासंसक्तमनं सत्रसमत्रसं च जलादि ज्ञात्वा निर्दोषमेवोपाददते, इति नैषां पात्रधारणे गुणः । वख तु दीक्षाकाले तीर्थकरा अपि गृह्णन्ति । यदाहुः—
४ सव्वे वि एगदु सेण निग्गया जिणवरा चउव्वीसं । न य नाम अण्णलिंगे न य गिहिलिगे कुलिंगे वा ॥१॥ (१) पकायरक्षणार्थ पात्रग्रहणं जिनैः प्रज्ञप्तम् । ये च गुणाः संभोगे भवन्ति ते पात्रग्रहणेऽपि ॥१॥ (२) ग्लानबालवृद्धात् शिक्षकात् प्राघूर्णिकाद् गुरोरसहिष्णुवर्गात् । साधारणावग्रहालब्धिकारणात् पात्रग्रहणं तु ॥२॥ (३) यादृशं गुरुलिङ्गं शिष्येणापि तादृशेन भवितव्यम् ।
(४) सर्वेऽपि एकदुष्येण निर्गता जिनवराश्चतुर्विंशतिः । न च नामान्यलिङ्गे न च गृहिलिङ्गे कुलिङ्गे वा ॥१॥
दतीय प्रकाशः
॥३५९ ॥