SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ तृतीय योगशास्त्रम् प्रकाश ॥३५८॥ वाचकमुख्यस्त्वाहकिश्चिच्छुदं कल्प्यमकल्प्यं स्यात् स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं पात्रं वा भेषजाधं वा ॥१॥ देशं कालं पुरुषमवस्थामुपयोगशुद्धिपरिणामान् । प्रसमीक्ष्य भवति कल्प्यं नैकान्तात्कल्पते कल्प्यम् ॥ २ ॥ ननु यथा शास्त्रो आहारदातारः श्रूयन्ते न तथा वस्त्रादिदातारः न च वस्त्रादिदानस्य फलं श्रूयते, तन्न वस्त्रादिदानं युक्तम् । नैवम् । भगवत्यादौ वस्त्रादिदानस्य साक्षादुक्तत्वात् । यथा-१“समणे निग्गंथे फामुएणं एसणि ज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकबलपायपुंछणेणं पीढफलगसेज्जा संथारएणं पडिलाभेमाणे विहरइ ।" ___ इत्याहारवत्संयमाधारशरीरोपकारकत्वाद्वस्त्रादयोऽपि साधुभ्यो देयाः । संयमोपकारित्वं च वस्त्रस्य तावत् तृणग्रहणानलसेवानिवारणार्थत्वेन, धर्मशुक्लध्यानसाधनार्थत्वेन, ग्लानपीडापरिहारार्थत्वेन, मृतकपरिष्ठापनार्थत्वेन च । यदाहु:__ रतणगहणानलसेवानिवारणा धम्मसुक्कझाणहा । दिलु कप्पग्गहणं गिलाणमरणहया चेव ॥ १॥ वाचकाऽप्याह शीतवातातपैर्दशैर्मशकैश्चापि खेदितः । मा सम्यक्त्वादिषु ध्यान न सम्यक् संविधास्यति ॥ १ ॥ इत्यादि (१) श्रमणान् निर्ग्रन्थान् प्रामुकेन एषणीयेन अशनपानखादिमस्वादिमेन वस्त्रपतद्ग्रहकम्बलपादप्रोग्छनेन पीठफलकशय्यासंस्तारकेण प्रतिलाभ्यमानान् विहारयति । (२) तृणग्रहणाऽनलसेवानिवारणाय धर्मशुक्लध्यानार्थम् । दिष्टं कल्पग्रहणं ग्लानमरणार्थ चैव ॥१॥ ॥३५८॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy