________________
योगशास्त्रम् ॥३५५॥
तृतीय प्रकाशा
मुश्चसीदं न चेत्तेऽग्रे ज्येष्ठपुत्रमहं तव । कुष्माण्डमिव खड्ड्रेन खण्डयिष्यामि खण्डशः ॥४२॥ भवतः प्रेक्षमाणस्य पुरस्तत्पिशितान्यहम् । क्षिप्त्वा कटाहे पक्ष्यामि शूलैर्भक्ष्यामि तत्क्षणात् ॥४३॥ आचमिष्यामि तन्मांसशोणितानि तथाऽधुना । प्रेक्षमाणो यथा हि त्वं स्वयमेव विपत्स्यसे ॥४४॥ देवब्रुवे विब्रुवति तत्रैवं चुलनीपिता । न चकम्पे केसरीव गर्जत्यूर्जितमम्बुदे ॥४५॥ अक्षोभं प्रेक्षमाणस्तु चुलनीपितरं सुरः । विभीषयितुकामस्तं तथैवोचे पुनः पुनः ॥४६॥ एवं विभाषमाणस्य सुरस्य चुलनीपिता । न सन्मुखमपि प्रेक्षाश्चक्रे शुन इव द्विपः ॥ ४७ ॥ स विकृत्य पुरो ज्येष्ठतनयं चुलनीपितुः । निस्त्रिंशेन नृशंसात्मा पशुवद् व्यशसत्ततः॥४८॥ छित्वा क्षित्वा कटाहान्तस्तन्मांसानि पपाच च । बभ्रज च शितः शूलैराचचाम च सोऽमरः ॥४९॥ अधिसेहे च तत्सर्व तत्वज्ञः चुलनीपिता । अन्यत्वभावनाभाजां स्वाङ्गच्छेदोऽपि नातये ॥५०॥ अथोचे स सुरो रे रे ! व्रतमद्यापि नोज्झसि । तद् ज्येष्ठमिव ते पुत्रं हन्मि मध्यममप्यहम् ।।५१।ततोऽहन्मध्यमं पुत्रं तथैवोचे पुनः पुनः। निरीक्ष्याक्षुभितं तं च कनिष्ठं चावधीत्सुतम् ॥५२॥ तत्राप्यालोक्य निष्कम्पं तं क्रुद्धः स सुरोऽब्रवीत् । नाद्याप्युज्झसि पाखण्ड मातरं ते विहन्मि तत ॥५३॥ भद्रां नामाथ चुलनीपितुर्मातरमातुराम् । विकरोति स्म रुदती करुणं कुररीमिव ॥५४॥ स सुरः पुनरप्यूचे मुच्यतां प्रकृतं त्वया । स्वकुटुम्बप्रणाशाय कृत्यातुल्यमिदं व्रतम् ॥५५॥ अन्यथा कुलमेढिं ते मातरं हरिणीमिव । हत्वा भ्रक्ष्यामि पक्ष्यामि भक्षयिष्यामि च क्षणात् ॥५६॥ ततोऽप्यभीतं चुलनीपितरं वीक्ष्य सोऽमरः । भद्रामाराटयत्तारं सूनान्यस्तामजामिव ॥५७॥ यया भार इवोढस्त्वमुदरेणोदरंभरिः । मातरं हन्यमानां तां पश्येत्यूचे पुनः सुरः ॥५८॥ अथैवं चिन्तयामास चेतसा चुलनीपिता । अहो
॥३५॥