________________
योग
रातोय
शाखम्
प्रकाशा
१३५६॥
दुरात्मा कोऽप्येष परमाधार्मिकोपमः ॥५९॥ पुत्रत्रयं मे पुरतो जघान च चखाद च । क्रव्यादिव ममाम्बामप्यधुना हन्तुमुद्यतः ॥६०॥ यावन हन्त्यमूं तावद्रक्षामीति चचाल सः। कुर्वाणेन महाशब्दमुत्पेते च सुरेण खे ॥६१॥ तं च कोलाहलं श्रुत्वा भद्रा दुतमुपेत्य तम् । किमेतदिति चापृच्छत्सोऽशंसत्तदशेषतः ॥६२॥ ततोऽभाषिष्ट भट्रैवं मिथ्यादृक्कोऽप्ययं सुरः। पोषधव्रतविघ्नं ते चक्रे कृत्रिमभीषणैः ॥६३॥ पोषधवतभङ्गस्य कुरुष्वालोचनं ततः । पापाय व्रतभङ्गस्य स्यादनालोचनं यतः ॥६४॥ तथैव प्रतिपेदेऽथ तद्वाचं चुलनीपिता । चकारालोचनां तस्य व्रतभङ्गस्य शुद्धधीः ॥६५।। अथैकादश भेजेऽसौ श्रावकप्रतिमाः क्रमात् । सोपानानीव स स्वर्गसौधारोहणकर्मणे ॥६६॥ निस्त्रिंशधारानिशितं स एवं श्रावकव्रतम् । सुचिरं पालयामास भगवद्वचनोचितम् ॥६७॥ ततः संलेखनापूर्व प्रपद्यानशनं सुधीः। मृत्वा सौधर्म उत्पेदे विमाने सोऽरुणप्रभे ॥६८॥ दुष्पालमेवं चुलनीपिता यथा तत्पालयामास स पोषधव्रतम् । ये पालयन्त्येव तथा परेऽप्यदो, दृढव्रतास्ते खलु मुक्तिगामिनः ॥६९॥
॥इति चुलनीपितुः कथानकम् ॥८६॥ इदानीं चतुर्थ शिक्षाव्रतमाहदोनं चतुर्विधाहारपात्राच्छादनसद्मनाम् । अतिथिभ्योऽतिथिसंविभागवतमुदीरितम् ॥८७॥
अतिथिभ्यस्तिथिपर्वाधुत्सवरहितेभ्यो भिक्षार्थ भोजनकाले उपस्थितेभ्यः साधुभ्यो, दानं विश्राणनं, चतुर्विध स्याशनपानखाघस्वाधरूपस्याहारस्य, पात्रस्यालाब्वादेः, आच्छादनस्य वस्त्रस्य कम्बलस्य वा, सबनो वसतेरुपलक्षणात्पीठफलकशय्यासंस्तारकादीनामपि । अनेन हिरण्यादिदाननिषेधस्तेषां यतेरनधिकारात् । तदेतदतिथिसंवि
॥३५६॥