________________
तृतीय
योगशास्त्रम्
प्रकाशा
।।३५४॥
कात् । विलेपनानि चान्यत्र कुङ्कुमागरुचन्दनात् ॥२४॥ पुष्पं प्रत्याख्यदन्यच्च पद्माज्जातिखजोऽपि च । कर्णिकानाममुद्राभ्यामन्यानि भूषणानि च ॥२५ मुमोच धूपमगरुतुरुष्काभ्यामथापरम् । अन्याश्च काष्ठपेयायाः पेया अपि समन्ततः॥२६।। खण्डखाद्याद् घृतपूराच्चेतरत् खाद्यमत्यजत् । ओदनान्यपि निःशेषाण्यन्यतः कलमौदनात् ॥२७॥ कलायमुद्रमाषेभ्य इतरं सूपमत्यजत् । शरत्कालभवात्सर्व गोघृतादपरं घृतम् ॥२८॥ शाकं पल्यङ्कमण्डूकीशाकाभ्यामन्यम(द)त्यजत् । विना स्नेहाम्लदाल्यम्ले तीमनान्यपि सर्वतः॥२९॥ अन्तरिक्षोदकादन्यदुदकं पर्यवर्जयत् । मुखवासं च ताम्बूलात्पश्चसौगन्धिकादृते ॥३०॥ अपध्यानं हिंसदानं प्रमादाचरितं तथा। पापकर्मोपदेश चानर्थदण्डानवर्जयत् ॥३१॥ एवं श्रावकधर्म स सम्यक् सम्यक्त्वपूर्वकम् । सर्वातिचाररहित प्रपेदे पुरतः प्रभोः ॥३२॥ भगवन्तं ततो नत्वा गत्वा च निजवेश्मनि । प्रतिपन्न तथा धर्म स्वभार्यायै न्यवेदयत् ॥३३॥ तेनाथ साऽप्यनुज्ञाता रथमारुह्य तत्क्षणम् । उपेत्य भगवत्पार्चे गृहिधममशिश्रियत् ॥३४॥ तदा च गौतमो नत्वा पप्रच्छेति जगत्पतिम् । महाव्रतधरः किं स्यान्न वाऽयं चुलनीपिता ? ॥३५॥ अथोचे स्वामिना नैष यतिधर्म प्रपत्स्यते । गृहिधर्मरतः किं तु मृत्वा सौधर्ममेष्यति ॥३६।। अरुणाभे विमाने च चतुष्पल्योपमस्थितिः। ततश्च्युत्वा विदेहेषुत्पद्य निर्वाणमेष्यति ॥३७॥ (युग्मम्) गृहभारं ज्येष्ठपुत्रे न्यस्याथ चुलनीपिता । तस्थौ पौषधशालायां पालयन् पोषधव्रतम् ॥३८॥ तस्याथ पोषधस्थस्य मायामिथ्यात्ववान् सुरः। निशीथे कश्चिदागच्छत्पाचे व्रतजिघांसया ॥३९॥ घोराकारः पुरोभूय खड्गमाकृष्य भीषणम् । स इत्यूचे तमत्युच्चैश्चुलनीपितरं मुरः ॥ ४०॥ अप्रार्थितप्रार्थक रे ! श्रमणोपासकव्रतम् । त्वया किमिदमारब्धं मदादेशेन मुच्यताम् ॥४१॥
॥५४॥