________________
योगशास्त्रम्
।।३५३।।
॥६॥ तस्यां पुर्यामथान्येद्युरुद्याने कोष्टकाभिधे । भगवान् समवसृतो विहरंश्वरमो जिनः ॥७॥ ततो भगवतः पादवन्दनाय सुरासुराः । सेन्द्राः समाययुस्तत्र जितशत्रुश्च भूपतिः ||८|| पद्धयां चचाल चुलनीपिताऽप्युचितभूषणः । वन्दितुं नन्दितमनाः श्रीवीरं त्रिजगत्पत्तिम् ||९|| भगवन्तं ततो नत्वोपविश्य चुलनीषिता । शुश्राव परया भक्त्या प्राञ्जलिर्धर्मदेशनाम् ॥१०॥ अथोस्थितायां सदसि प्रणम्य चरणौ प्रभोः । इति चिज्ञपयामास विनीतचुलनीपिता ||११|| स्वामिन्नस्मादृशां बोधहेतोर्विहरसे महीम् । जगद्बोधं विना नान्यो ह्यर्थचक्रमणे रवेः ॥१२॥ सर्वोऽपि याच्यते गत्वा स दत्ते यदि वा न वा । आगत्य याचितो धर्मं दत्से हेतुः कृपाऽत्र ते ॥१३॥ जानामि यतिधर्म चेत् गृह्णामि स्वामिनोऽन्तिके । योग्यता परमियती मन्दभाग्यस्य नास्ति मे || १४ || याचे श्रावकधर्मं तु स्वामिन् ! देहि प्रसीद मे | आदत्तेऽब्धावप्युदको भरणं निजमेव हि । | १५ || यथासुखं गृहाणेति स्वामिनाऽनु मतस्ततः । स प्रत्याख्यत्स्थूलहिंसां मृषावादं च चौरिकाम् ||१६|| प्रत्याख्यश्च स्वभार्यायाः श्यामाया अपरस्त्रियम् । अष्टाष्टकोट्यभ्यधिकं स्वर्ण निध्यादिषु त्रिषु || १७|| ब्रजेभ्योऽन्यानथाष्टभ्यः प्रत्याचख्यौ ब्रजानपि । हलपञ्चशतीतोऽन्यां कृषियोग्यां महीमपि ।। १८ ।। अनःशतेभ्यः पञ्चभ्योदिग्यायिभ्योऽपरं त्वनः । संवहद्भयश्च पञ्चभ्यः प्रत्याचख्यौ महामतिः ||१९|| दिग्रयात्रिकाणि चत्वारि चत्वारि प्रवहन्ति च । वाहनानि विना सोऽथ प्रत्याख्यदितराणि तु ||२०|| अन्यत्र गन्धकाषाय्याः प्रत्याख्यदङ्गपुंसनम् । आर्द्राया मधुकयष्ठेरितद्दन्तधावनम् ॥ २१॥ अन्यतः क्षीरामलकात्प्रत्याचख्यौ फलान्यपि । सहस्रशतपाकाभ्यां तैलाभ्यां म्रक्षणान्तरम् ||२२|| गन्धाढ्यादन्यतः प्रत्याचख्यावुद्धर्त्तनान्यपि । अष्टाभ्य औष्ट्रिकेभ्योऽम्भः कुम्भेभ्योऽधिकमज्जनम् ||२३|| वस्त्रं प्रत्याख्यदन्यच्च कार्पासाद्वत्रयुग्म
तृतीय
प्रकाशः
॥३५३॥