________________
योगशानम्
तत्तीय प्रकाशा
॥३५२॥
इह च यद्याहारशरीरसत्कारब्रह्मचर्यपोषधवत् कुव्यापारपोषधव्रतमध्यन्यत्रानाभोगेनेत्याद्याकारोच्चारणपूर्वकं प्रतिपद्यते तदा सामायिकमपि सार्थकं स्यात् । स्थूलत्वात्पोषधप्रत्याख्यानस्य सूक्ष्मत्वाच्च सामायिकस्येति । तथा पोषधयताऽपि सावधव्यापारा न कार्या एव ततः सामायिकमकुर्वस्तल्लाभाद्मश्यतीति । यदि पुनः सामाचारीविशेषात सामायिकमिव विविधं त्रिविधेनेत्येवं पोषधं प्रतिपद्यते तदा सामायिकार्थस्य पौषधेनैव गतत्वान्न सामायिकमत्यन्तं फलवत् । यदि परं पोषधसामायिकलक्षणं व्रतद्वयं प्रतिपनं मयेत्यभिप्रायात् फलवदिति ॥८५॥
इदानीं पोषधव्रतकतन् प्रशंसतिU| गृहिणोऽपि हि धन्योस्ते पुण्यं ये पोषधव्रतम् । दुष्पालं पालयन्त्येव यथा स चुलनीपिता॥८६॥ ___ यतयस्तावद् धन्या एव गृहिणोऽपि गृहस्था अपि ते धन्याः धर्मधनं लब्धारः ये निःसत्त्वजनदुष्पालं पुण्यं पवित्रं पोषव्रतं पालयन्ति, यथा स चुलनीपितेति दृष्टान्तः, स च सम्प्रदायगम्यः । स चायम्___ अस्ति वाराणसी नामानुगडं नगरी वरा । विचित्ररचनारम्या तिलकश्रीरिवावनेः ॥१॥ सुत्रामेवामरावत्यामविसत्रितविक्रमः। जितशत्रुरभूत्तत्र धरित्रीधवपुङ्गवः ॥२॥ आसीदगृहपतिस्तस्यां महेभ्यश्चुलनीपिता। प्राप्तो मनुष्यधर्मेव मनुष्यत्वं कुतोऽपि हि ॥३॥ जगदानन्दिनस्तस्यानुरुपा रूपशालिनी । श्याभा नामाभवद्भार्या श्यामेव तुहिनद्युतेः ॥४॥ अष्टौ निधानेऽष्टौ वृद्धावष्टौ च व्यवहारगाः । इति तस्याभवन् हेम्नश्चतुर्विंशतिकोटयः ॥५॥ एकैकशी गोसहस्त्रैर्दशभिः प्रमितानि तु । तस्यान् गोकुलान्यष्टौ कुलवेश्मानि सम्पदाम्
॥३५२॥