________________
पोग
शास्त्रम् ॥३५१॥
तृतीय प्रकाशः
अथ तृतीयं शिक्षाघ्रतमाहचतुष्पा चतुर्थादिकुव्यापारनिषेधनम् । ब्रह्मचर्य क्रियास्त्रानादित्यागः पोषधव्रतम् ॥८५॥
चतुष्पर्वी अष्टमी-चतुर्दशी-पूणिमा-अमावास्यालक्षणा, चतुर्णा पर्वाणां समाहारश्चतुष्पर्वी। पर्वशब्दोऽकारान्तोऽप्यस्ति, तस्यां चतुर्थादिकं तपः, कुब्यापारस्य सावधव्यापारस्य निषेधः, ब्रह्मचर्यक्रिया ब्रह्मचर्यस्य करणं स्नानादेः शरीरसत्कारस्य त्यागः । आदिशब्दादुद्वर्तनवर्णकविलेपनपुष्पगन्धविशिष्टवस्त्राभरणादिपरिग्रहः। पोषं पुष्टि प्रक्रमाद्धर्मस्य धत्त पोषधः स एव व्रतं पोषध व्रतम् सर्वतः पोषध इत्यर्थः । द्विविधं हि पोषधवतं देशतः सर्वतश्च । तत्राहारपोषधो देशतो विवक्षितविकृतेरविकृतेराचामाम्लस्य वा सकृदेव द्विरेव वा भोजनमिति। सर्वतस्तु चतुर्विधस्याप्याहारस्याहोरात्रं यावत्प्रत्याख्यानम्, कुव्यापारनिषेधपोषधस्तु देशत एकतरस्य कस्यापि कुव्यापारस्याकरणं, सर्वतस्तु सर्वेषामपि कृषिसेवावाणिज्यपाशुपाल्यगृहकर्मादिनामकरणं, ब्रह्मचर्यपौषधोऽपि देशतो दिवैव रात्रावेव वा, सकृदेव द्विरेव वा स्वीसेवां मुक्त्वा ब्रह्मचर्यकरणम्, सर्वतस्तु अहोरात्रं यावत् ब्रह्मचर्य पालनम् । देशतः स्नानादेः शरीरसत्कारस्यैकतरस्याकरणं सर्वतस्तु सर्वस्यापि तस्याकरणम्, इह च देशतः कुव्यापारनिषेधपोषधं यदा करोति तदा सामायिकं करोति वा न वा, यदातु सर्वतः करोति तदा सामायिक नियमात्करोति, अकरणे तु तत्फलेन वच्च्यते । सर्वतः पोषधव्रतं च चैत्यगृहे वा, साधुमूले वा, गृहे वा, पोषधशालायां वा त्यक्तमणिसुवर्णाधलङ्कारो व्यपगतमालाविलेपनवर्णकः परिहृतप्रहरणः प्रतिपद्यते । तत्र च कृते पठति च पुस्तकं वाचयति धर्मध्यानं ध्यायति, यथैतान् साधुगुणानहं मन्दभाग्यो न समर्थों धारयितुमिति।