________________
योगशास्त्रम्
वतीय प्रकाशा
॥३५०॥
तीक्ष्णानि शिक्षावशतो व्रतान्यपि तथा सुधीः ॥३॥ माघमासे विभावर्या सोऽन्यदा वासवेश्मनि । आदीपज्वलन स्थास्यामीति सामायिके स्थितः ॥४॥ तच्छय्यापालिका ध्वान्तं स्वामिनो मा स्म भूदिति । याते प्राग्यामिनीयामे प्रदीपे तैलमक्षिपत् ॥५॥ गते यामे द्वितीयस्मिन्नपि सा भक्तमानिनी । जाग्रती दीपके क्षीणतैले तैलं न्यधात्पुनः ॥६॥ त्रियामायास्तृतीयस्मिन्नपि यामे व्यतीयुषि । मल्लिकायां प्रदीपस्य तैलं चिक्षेप सा पुनः॥७॥ विभातायां विभावर्यामवसानमथासदत् । श्रमोत्पन्नव्यथाक्लान्तो राजा स इव दीपकः ॥८॥ सामायिक समधिगम्य निहत्य कर्म चन्द्रावतंसनृपतिस्त्रिदिवं ततोऽगात् । सामायिकवतजुषो गृहिणोऽपि सद्यः, क्षीयेत कर्म निचितं सुगतिर्भवेच्च ॥६॥
॥ इति चन्द्रावतंसराजर्षिकथानकम् ॥८॥ द्वितीय शिक्षाव्रतमाह-- दिगवते परिमाणं यत्तस्य संक्षेपणं पुनः । दिने रात्रौ च देशावकाशिकव्रतमुच्यते ॥४॥
दिग्रव्रते प्रथमगुणवते यद्दशस्वपि दिक्षु गमनपरिमाणं तस्य दिवा रात्रौ चोपलक्षणत्वात्प्रहरादौ च यत् सक्षेपणं तदशावकाशिकव्रतम् । देशे दिग्व्रतगृहीतपरिमाणस्य विभागे अवकाशोऽवस्थान देशावकाशः सोऽत्रास्तीति देशावकाशिकं “अतोऽनेकस्वरात्" ॥७॥२॥६॥ इतीकः। दिग्रवतसंक्षेपकरणमणुव्रतादिसंक्षेपकरणस्याप्युपलक्षणं द्रष्टव्यम् , एषामपि संक्षेपस्यावश्यं कर्त्तव्यत्वात् । प्रतिव्रतं च संक्षेपकरणस्य विभिन्नव्रतत्वे द्वादश व्रतानीति संख्याविरोधः स्यात् ।।८४॥
(१) पात्रे.
॥३५॥