________________
योगशास्त्रम् ॥३४९॥
तृतीय प्रकाशा
HERANASIAN
पोषधशालायां वा सामायिकं गृहीत्वा तत्रैवास्ते तदा गमनं नास्ति । यस्तु राजादिमहर्दिकः स गन्धसिन्धुरस्कधाधिरूढछत्रचामरादिराजालङ्करणलश्कृतो हास्तिकाश्वीयपादातिरथकटचापरिकरितो भेरीभाङ्कारभरिताम्बरतलो बन्दिवृन्दकोलाहलाकुलीकृतनभस्तलोऽनेकसामन्तमण्डलेश्वराहमहमिकासंप्रेक्ष्यमाणपादकमलः पौरजनैः सश्रद्धम
गुल्योपदय॑मानो मनोरयैरुपस्पृश्यमानस्तेषामेवाञ्जलिबन्धान लाजाजलिपातान् शिरःप्रणामाननुमोदमानः “अहो धन्यो धर्मों य एवंविधैरप्युपसेव्य" इति प्राकृतजनैरपि श्लाध्यमानोऽकृतसामायिक एव जिनालयं साधुवसतिं वा गच्छति, तत्र गतो राजककुदानि छत्रचामरोपानदमुकुटखगरूपाणि परिहरति, जिनार्चनं साधुवन्दनं वा करोति, यदि त्वसौ कृतसामायिक एव गच्छेत् तदा गजाश्वादिभिरधिकरणं स्यात् ; तच्च न युज्यते कर्तुम् । तथा कृतसमायिकेन पादाभ्यामेव गन्तव्यम् , तच्चानुचितं भुपतीनामिति । आगतस्य च यद्यसौ श्रावको भवति तदा न कोऽप्यभ्युत्थानादि करोति । अथ यथाभद्रकस्तदा पूजा कृता भवत्विति पूर्वमेवासनं रच्यते । आचार्याश्च पूर्वमेवोत्थिता आसते मा उत्थानानुत्थानकृता दोषा भूवनिति, आगतश्चासौ सामायिकं करोतीत्यादि पूर्ववत् ॥८२॥
सामायिकस्थश्च महानिर्जरो भवतीति दृष्टान्तद्वारेणाहसोमायिकव्रतस्थस्य गृहिणोऽपि स्थिरात्मनः। चद्रावतंसकस्येव क्षीयते कर्म सञ्चितम् ॥८३॥ गृहस्थस्यापि कृतसामायिकस्य कर्मनिर्जरा भवतीति चन्द्रावतंसक उदाहरणम् । तच्च सम्प्रदायगम्यम् । स चायम्
अस्ति साकेतनगरं श्रीसङ्केतनिकेतनम् । हसितेन्द्रपुरश्रीकं सिताहच्चैत्यकेतनः ॥१॥ तत्र लोकगानन्दो द्वितीय इव चन्द्रमाः। चन्द्रावतंसो राजाऽसोदवतंस इवावनेः ॥२॥ स यथा धारयामास शस्त्राणि त्राणहेतवे ।
॥३४९॥