________________
योगशास्त्रम्
तृतीय प्रकाशा
॥३४८॥
निर्देशः कृतः ? उच्यते-योगस्य करणाधीनतोपदर्शनार्थम् । करणाधीनता हि योगानाम्, करणभावे भावात्तदभावे | चाभावाद्योगस्य । तस्सेति, तस्य अत्राधिकृतो योगःसंबध्यते, अवयवावयविभावलक्षणसम्बन्धे षष्ठीः, योऽयं योगस्त्रिकालविषयस्तस्यातीतमवयवं प्रतिक्रामामि निवर्त प्रतीपं कामामीत्यर्थः, निन्दामि जुगुप्से गर्हामि स एवार्थः, केवलमात्मसाक्षिकी निन्दा, गुरुसाक्षिकी गर्दा । भन्ते इति पुनर्गुरोरामन्त्रणं भक्त्यतिशयख्यापनार्थ न पुनरुक्तम्, अथवा सामायिकक्रियाप्रत्यर्पणाय पुनर्गुरोः सम्बोधनम् । अनेन चैतत् ज्ञापितं भवति, सर्वक्रियाऽवसाने गुरोः प्रत्यर्पणं कार्यमिति । उक्तं च भाष्यकारेण
१सामाइयपच्चप्पणबयणोवायं भयंतसहोत्ति । सव्वकिरियावसाणे भणिय पञ्चप्पणमणेण ॥१॥ अप्पाणमिति; आत्मानमतीतकालसावद्ययोगकारिणम्: वोसिरामीति व्युत्सृजामिः विशब्दो विविधार्थों विशेषार्थों वा; उच्छब्दो भृशार्थः। विविधं विशेषेण वा भृशं मृजामि त्यजामित्यर्थः। अत्र च करेमि भंते सामाइयमिति वर्तमानस्य सावधयोगस्य प्रत्याख्यानम् , सावज जोगं पञ्चक्खामीत्यनागतस्य तस्स भंते पडिक्कमामीत्यतीतस्येति त्रैकालिकं प्रत्याख्यानमुक्तमिति त्रयाणां वाक्यानां न पौनरुक्त्यम् । उक्तश्च
“अईयं निंदामि पडुप (प्प) संवरेमि अणागयं पच्चक्खामीति । एवं कृतसामायिक ईर्यापथिकायाः प्रतिक्रामति पश्चादागमनमालोच्य यथाज्येष्ठमाचार्यादीन् वन्दते, पुनरपि गुरुं वन्दित्वा प्रत्युपेक्ष्य निविष्टः श्रृणोति, पठति, पृच्छति वा। एवं चैत्यभवनेऽपि द्रष्टव्यम् यदा तु स्वगृहे (१) सामायिकप्रत्यर्पणवचनोपायो भदन्तशब्द इति । सर्वक्रियाऽवसाने भणित प्रत्यर्पणमनेन ॥१॥