________________
योगशास्त्रम्
तृतीय प्रकाशा
॥३४॥
प्रत्यक्षस्य गुरोस्तदभावे परोक्षस्यापि बुद्धया प्रत्यक्षीकृतस्य भवति, यथा जिनानामभावे जिनप्रतिमाया आरोपितजिनवायाः स्तुतिपूजासम्बोधनादिकं भवति, गुरोश्चाभिमुखीकरणं तदायत्तः सर्वो धर्म इति प्रदर्शनार्थम् । यदाह१नाणस्स होइ भागी थिरयरओ दसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥१॥
अथवा भवान्तहेतुत्वाद्भवान्तः, भन्ते इत्यार्षत्वात् । मध्यव्यञ्जनलोपे रूपं भन्ते इति “अत एत्सौ पुंसि मागध्याम्" ॥८॥४॥२८७॥ इत्येकारोऽर्द्धमागधत्वादार्षस्य । सामायिकमुक्तनिर्वचनम् । अवयं पापं, सहावधेन सावद्यः युज्यते इति योगो व्यापारस्तं प्रत्याख्यामि प्रतीति प्रतिषेधे आङाऽऽभिमुख्ये ख्यांक प्रकथने, ततश्च प्रतीपमभिमुख ख्यापकं सावधयोगस्य करोमीत्यर्थः । अथवा पच्चक्खामीति प्रत्याचक्षे, चक्षिक व्यक्तायां वाचीत्यस्य प्रत्यापूवस्ट रूपम् प्रतिषेधस्यादरेणाभिधानं करोमीत्यर्थः । जाव साहू पज्जुवासामि यावच्छब्दः परिमाणमर्यादाऽवधारणवचनस्तत्र परिमाणे यावत्साधुपर्युपासनं मम तावत्प्रत्याख्यामीति, मर्यादायां साधुपर्युपासनादक, अवधारणे यावत्साधुपयुपासनं तावदेव न तस्मात्परत इत्यर्थः । दुविहं तिविहेणं, द्वे विधे यस्य स द्विविधः सावधो योगः स च प्रत्याख्येयत्वेन कर्म सम्पद्यते; अतस्तं द्विविधं योगं करणकारणलक्षणमनुमतिप्रतिषेधस्य गृहस्थैः कर्तुमशक्यत्वात् पुत्रभृत्यादिकृतस्य व्यापारस्य स्वयमकरणेऽप्यनुमोदनात् । त्रिविधेनेति करणे तृतीया । मणेणं वायाए कारणं इति त्रिविधस्यैव सूत्रोपात्त विवरणं मनसा वाचा कायेन चेति त्रिविधेन करणेन । न करोमि न कारयामीति सूत्रोपात्तमेव द्विविधमित्यस्य विवरणम् । किं पुनः कारणमुद्देशक्रममतिलङ्घय व्यत्यासेन
(१) ज्ञानस्य भवति भागी स्थिरतरको दर्शने चरित्रे च । धन्या यावत्कथायां (थ) गुरुकुलवासं न मुश्चन्ति ॥१॥
1॥३४॥