________________
'तुतीय
योगशास्त्रम्
प्रकाशा
॥३४६॥
दोषः ? नैवम्, यतेवि देवस्नात्रपूजनादौ नाधिकारः । भावस्तवार्थ च द्रव्यस्तवोपादानम् सामायिके च सति संप्राप्तो भावस्तव इति किं द्रव्यस्तवकरणेन ? । यदाहदबत्यो य भावत्यो य दबत्यो बहुगुणो त्ति बुद्धि सिया । अणिउणजणवयणमिणं छज्जीवहियं जिणा विति।। ___ इह श्रावकः सामायिककर्त्ता द्विविधो भवति-ऋद्धिमाननृद्धिकश्च, योऽसावनृद्धिकः स चतुषु स्थानेषु सामायिकं करोति-जिनगृहे, साधुसमीपे, पौषधशालायां, स्वगृहे वा, यत्र वा विश्राम्यति, निर्व्यापारो वा आस्ते तत्र च । तत्र यदा साधुसमीपे करोति तदाय विधिः, यदि कस्माच्चिदपि भयं नास्ति, केनचिद्विवादो नास्ति ऋणं वा न धारयति, मा भूत्तत्कृताकर्षणापकर्षणनिमित्तश्चित्तसंक्लेशः तदा स्वगृहेऽपि सामायिक कृत्वा ईर्या शोधयन्, सावद्या भाषां परिहरन, काष्ठलेष्ट्वादिना यदि कार्य तदा तत्स्वामिनमनुज्ञाप्य प्रतिलिख्य प्रमाय च गृह्णन्, खेलसिङ्घाणकादींश्चाविवेचयन् विवेचयंश्च स्थण्डिलं प्रत्यवेक्ष्य प्रमृज्य च, एवं पञ्चसमितिसमितस्विगुप्तिगुप्तः साध्याश्रय गत्वा साधूनमस्कृत्य सामायिकं करोति यथा
करेमि भंते सामाइयं सावजं जोगं पच्चक्खामि जाव साहू पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते पडिक्कमामि निदामि गरिहामि अप्पाणं वोसिरामि ॥ सामायिकसूत्रस्यायमर्थः-करेमि अभ्युपगच्छामि, भंते इति गुरोरामन्त्रणम्, हे भदन्त ! भदन्ते सुखवान् कल्याणवांश्च भवति भदुद मुखकल्याणयोः अस्य औणादिकान्तप्रत्ययान्तस्य निपातनात् रूपम् । आमन्त्रणं च (१) द्रव्यस्तवश्च भावस्तवश्च द्रव्यस्तवो बहुगुण इति बुद्धिः स्यात् । अनिपुणजनवचनमिदं षड्जीवहितं जिना युवतेश
॥३४६॥