________________
पोग
तृतीय प्रकाशा
शास्त्रम्
॥३४५॥
दंतरवण तंबोले चित्तं तुलसीकुहेडगाईयं । महुपिप्पलिमुंठाई अणेगहा साइमं होइ ॥१।।८।।
उक्तानि त्रीणि गुणव्रतानि । अथ चत्वारि शिक्षाप्रतान्युच्यन्ते, तत्रापि सामायिकदेशावकाशिकपौषधोपवासातिथिसंविभागलक्षणेषु चतुर्षु शिक्षाव्रतेषु प्रथम सामायिकाख्यं शिक्षाघ्रतमाह-- त्यतातरौद्रध्यानस्य त्यक्तसावद्यकर्मणः। मुहूर्त समता या तां विदुः सामायिकवतम्।८२।
मुहूर्त मुहूर्त्तकालं, या समता रागद्वषहेतुषु मध्यस्थता, तां सामायिकवतं विदुः, समस्य रागद्वेषविनिर्मुक्तस्य सतः आयो ज्ञानादीनां लाभः प्रशमसुखरूपः समायः, समाय एव सामायिकम् , विनयादित्वादिकण् । समायः प्रयोजनमस्येति वा सामायिकम् । तच्च सामायिक मनोवाकायचेष्टापरिहारं विना न भवतीति त्यक्तातरौद्रध्यानस्ये त्युक्तं, त्यक्तसावधकर्मण इति च, त्यक्तं सावध वाचिकं कायिकं च कर्म येन तस्य । सामाथिकस्थश्च श्रावकः गृहस्थोऽपि यतिरिव भवति । यदाह
२सामाइयंमि उ कए समणो इव सावो हवइ जम्हा । एएण कारणेणं बहुसो सामाइयं कुज्जा ॥१॥ अत एव तस्य देवस्नात्रपूजादौ नाधिकारः । नन्वगर्हितं कर्म कुर्वाणस्य देवस्नात्रादौ को दोषः, सामायिक हि सावधव्यापारनिषेधात्मकं, निरवधव्यापारविधानात्मकं च, तत्स्वाध्यायपठनपरिवर्तनादिवत् देवपूजादौ को (१) दन्तपावनं ताम्बूलं चित्रं तुलसीकुहेडकादिकम् । मधुपिप्पलिमुण्ठयादि अनेकधा स्वादिमं भवति ।। (२) सागायिक एव (के तु) कृते श्रमण इव श्रावको भवति यस्मात् । एतेन कारणेन बहुशः सामायिकं कुर्यात् ।।
॥३४५॥