________________
योगशाखाम्
तृतीय प्रकाशा
॥३४॥
विलासहासनिष्ठ्यूतनिद्राकलहदुष्कथाः। जिनेन्द्रभवनस्यान्तराहारं च चतुर्विधम ॥१॥
जिनेन्द्रभवनस्यान्तरित्यादित आरभ्य संबध्यते, तेन जिनेन्द्रभवनस्य मध्ये विलासं कामचेष्टां, हासं कहकहध्वानं इसनं, निष्ठ्यूतं निष्ठीवनं, निद्रां स्वापं, कलहं राटी, दुष्कथां चौरपारदारिकादिकथां, चतुर्विधं चाहारम्
-अशनपानखाद्यस्वाधस्वरूपं परिहरेत् । परिहरेदिति पूर्वतः सम्बन्धनीयम् । तत्राशनं शाल्यादि मुद्गादि सक्त्वादि पेयादि मोदकादि क्षीरादि सूरणादि मण्डकादि च । यदाह
असणं ओअणसत्तगमुग्गजगाराइ खज्जगविही य । खीराइमरणाई मंडगपभिई अविण्णे ॥१॥ पानं सौवीरं यवादिधावनं, सुरादि सर्वश्चापकायः कर्कटकजलादिकं च । यदाह२पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव । आउक्काओ सव्वो कक्कडगजलाइयं च तहा ॥१॥ खाद्य भृष्टधान्यं गुलपर्पटिकाखजूरनालिकेरद्राक्षाकर्कटचाम्रपनसादि । यदाह३भत्तोसं दंताई खज्जूरं नालिएरदक्खाई । ककडिगंबगफणसाइ बहुविहं खाइमं नेयं ॥ १ ॥ स्वाद्यं दन्तकाष्ठं ताम्बूलनुलसिकापिण्डार्जकमधुपिप्पलीसुण्ठीमरिचजीरकहरीतकीविभीतवस्थामलक्यादि । यदाह
(१) अशनमोदनसक्तुकमुद्गजगादि खाद्यकविधिश्च । क्षीरादि सूरणादि मण्डकप्रभृति च विज्ञेयम् ।। (२) पानं सौवीरयवोदकादि चित्रं सुरादिकं चैव । अप्कायः सर्वः कर्कटकजलादिकं च तथा ॥१॥ (३) भक्तोषं दन्त्यादि खजूरं नालिकेरद्राक्षादि । कर्कटिकाम्रपनसादि बहुविधं खादिमं ज्ञेयम् ॥१॥
भत्ता काष्ठं ताम्बूलनुलसिका
सायकविधिश्च । क्षीदाय सर्वः कर्कटकजलादिम ज्ञेयम् ॥ १ ॥
॥३४४॥