________________
योग
शास्त्रम्
॥३४३॥
ल्नं वृक्षशाखादौ दोलाखेलनं; आदिशब्दात्पुष्पावचयादि; तथा जन्तूनां कुक्कुटादीनां योधनं परस्परेणाभ्याहननम्; तथा रिपोः शत्रोः सम्बन्धिना पुत्रपौत्रादिना वैरम् अयमर्थो येन तावत्कथञ्चिदायातं वैरं तद्यः परिहत्तु न शक्नोति तस्यापि पुत्रपौत्रादिना यद्वैरं तत्प्रमादाचरणम् ; तथा भक्तकथा यथा इदं चेदं च मांस्पाकमामोदकादि साधु भोज्यं साध्वनेन भुज्यते, अहमपि वा इदं भोक्ष्ये इत्यादिरूपा; तथा स्त्रीकथा स्त्रीणां नेपथ्यङ्गहारहावभावादिवर्णनरूपा “कर्णाटी सुरतोपचारचतुरा लाटी विदग्धप्रिया" इत्यादिरूपा वा; तथा देशकथा, यथा दक्षिणापथः प्रचुरानपानः स्त्रीसम्भोगप्रधानः, पूर्वदेशो विचित्रवनगुडखण्डशालिमद्यादिप्रधानः, उत्तरापथे शूराः पुरुषा जविनो वाजिनो गोधूमप्रधानानि धान्यानि सुलभं कुङ्कुमं मधुराणि द्राक्षादाडिमकपित्थादीनि पश्चिमदेशे सुखस्पर्शानि च वस्त्राणि सुलभा इक्षवः शीतं वारीत्येवमादिः राट्रकथा राजकथा यथा शुरोऽस्मदीयो राजा, सधनचौडः गजपतिगैंडः, अश्वपतिस्तुरुष्क इत्यादि । एवं प्रतिकूला अपि भक्तादिकथा वाच्या; तथा रोगो ज्वरादिः, मार्गश्रमो मार्गखेदः तौ मुक्त्वा सकलां निशां स्वापो निद्रा । रोगमार्गश्रमयोस्तु न प्रमादाचरणम् । एवमादिपूर्वोक्तस्वरूपं प्रमादाचरणं परिहरेत् । सुधीः श्रमणोपासकः । प्रमादाचरितं च
मज्जं विसयकसाया निद्दा विगहा य पश्चमी भणिया । एए पञ्च पमाया जीवं पाडेन्ति संसारे ॥ १ ॥ इति पञ्चविधस्य प्रमादस्य प्रपञ्चः ।। ७८ ।। ७९ ।। ८० ।।
देशविशेषं प्रमादपरिहारमाह
(१) मद्यं विषयकपाया निद्रा विकथा च पञ्चमी भणिता । एते पञ्च प्रमादा जीवं पातयन्ति संसारे ॥ १ ॥
COOK::
तृतीय
प्रकाशः
॥३४३॥