________________
तृतीय प्रकाशा
शास्रम्
॥३४२॥
दोऽयमुच्यते । दाक्षिण्याविषय इति । बन्धुपुत्रादिविषयदाक्षिण्यवतः पापोपदेशोऽशक्यपरिहारः। दाक्षिण्याभावे तु यथा तथा मौखर्येण पापोपदेशो न कल्पते ॥७६ ॥ ____ अथ हिंसोपकारीणि तददानपरिहारं चाहयन्त्रलाङ्गलशस्त्राग्निमुशलोदूखलोदिकम् । दाक्षिण्याविषये हिंसं नार्पयेत्करुणापरः ॥७७॥ . यन्त्रं शकटादि, लाङ्गलं हलं, शख खड्गादि, अग्निवह्निः, मुशलमयोऽग्रं, उदुखलमुलूखलं, आदिशब्दाद्धनुभखादिपरिग्रहः । हिंसं वस्तु, करुणापरः श्रावको नार्पयेत्, दाक्षिण्याविषय इति पूर्ववत् ॥ ७७॥
अथ प्रमादाचरणमनर्थदण्डस्य चतुर्थभेदं तत्परिहारं च श्लोकत्रयेणाहकुतूहलाद्गीतनृत्तनाटकादिनिरीक्षणम् । कामशास्त्रप्रसक्तिश्च द्युतमद्यादिसेवनम् ॥ ७॥ जलक्रीडाऽऽन्दोलनादिविनोदोजन्तुयोधनम् । रिपोः सुतादिना वैरं भक्तस्त्रीदेशराटकथाः।७९।
रोगमार्गश्रमौ मुक्त्वा स्वापश्च सकलां निशाम् । एवमादि परिहरेत्प्रमादाचरणं सुधीः ।८।। ___ कतूहलात्कौतुकादेतोर्गीतस्य नृत्तस्य नाटकस्य आदिशब्दात्प्रकरणादोनिरीक्षणं, तेन तेनेन्द्रियेण यथोचितं विषयीकरणम् । कुतूहलग्रहणाज्जिनयात्रादौ प्रासङ्गिकनिरीक्षणे च न प्रमादाचरणम् । तथा कामशास्त्रे वात्स्यायनादिकृते, प्रसक्तिः पुनः पुनः परिशीलनम्, तथा द्यूतमक्षकादिभिः क्रीडनम्, मद्यं सुरा, आदिशब्दान्मृगयादि, तेषां सेवनं परिशीलनं, तथा जलक्रीडा तडागजलयन्त्रादिषु मज्जनोन्मज्जनश्रुङ्गिकाच्छोटनादिरूपा, तथा आन्दो
॥३४२॥