________________
योगशास्त्रम् ॥३४०॥
तृतोय प्रकाशा
द्विदले आदिशब्दात्पुष्पितौदने, अहतियातीते दधिन, कुथितान्ने च, ये जन्तवस्ते केवलज्ञानिभिर्दष्टा इति जन्तुमिश्रामगोरसमिश्रद्विदलादिभोजनं वर्जयेत् । तद्भोजनाद्धि प्राणातिपातलक्षणो दोषः। न च केवलिनां निर्दोषत्वेना सानां वचनानि विपरियन्ति ॥७१। अपि च । न मद्यादीनि कुथितानपर्यवसानान्येवाभोज्यानि, किन्त्वन्यान्यपि जीवसंसारवितबहुलान्यागमादुपलभ्य वर्जनीयानीत्याहजन्तुमिश्रं फलं पुष्पं पत्रं चान्यदपि त्यजेत् । सन्धानमपि संसक्तं जिनधर्मपरायणः ॥७२॥ __ जन्तुभिर्मिश्रं फलं मधूकबिल्वादेः, पुष्पमरणिशिग्रुमधृकादेः. पत्रं प्रावृषि तण्डुलीयकादेः. अन्यदपि मूलादित्यजेत् । सन्धानमाम्रफलादीनां यदि संसक्तं भवेत्, तदा जिनधर्मपरायणः कृपालुत्वात्यजेदिति संबन्धः । इदं च भोजनतो भोगोपभोगव्रतमुक्तम्, भोगोपभोगकारणं धनोपार्जनमपि भोगोपभोग उच्यते, उपचारात् । तत्परिमाणमपि भोगोपभोगव्रतम् । यथा श्रावकस्य खरकर्मपरिहारेण कर्मान्तरेण जीविका । एतच्च सक्षेपार्थमतिचारप्रकरण एव वक्ष्यति । अवसितं भोगोपभोगव्रतम् ॥७२॥
अथानर्थदण्डस्य तृतीयगुणवतस्यावसरः तच्चतुःति श्लोकद्वयेनाहआतै रौद्रमपध्यानं पापकर्मोपदेशिता । हिंसोपकारिदानं च प्रमादोचरणं तथा ॥७३॥ शरीराद्यर्थदण्डस्य प्रतिपक्षतया स्थितः। योऽनर्थदण्डस्तत्त्यागस्तृतीयं तु गुणव्रतम् ॥७४॥
॥३४०अ॥