SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥ ३३९॥ शास्त्र निदर्शनं च विना सकलजनानुभवसिद्धं रात्रिभोजनविरतेः फलमाह — करोति विरति धन्यो यः सदा निशि भोजनात्। सोऽद्धं पुरुषायुषस्य स्यादवश्यमुपोषितः ॥ ६९ ॥ यः कश्चिद्धर्मधनो हि रात्रिभोजनस्य विरतिं करोति, सोऽर्द्ध पुरुषायुषस्योपोषितः स्यात् । उपवास्य चैकस्यापि निर्जराकारणत्वान्महाफलत्वं पञ्चाशद्वर्षसम्मितानां तूपवासानां कियत्फलं सम्भाव्यते ? इदं च शतवर्षायुषः पुरषानधिकृत्योक्तम् । पूर्वकोटीजीविनस्तु प्रति तदर्द्धमुपवासानां न्यायसिद्धमेव ॥ ६९ ॥ तदेवं रात्रिभोजनस्य भूयांसो दोषास्तत्परिवर्जने तु ये गुणास्तान् वक्तुमस्माकमशक्ति रेवेत्याहरजनीभोजनत्यागे ये गुणः परितोऽपि तान् । न सर्वज्ञाहते कश्चिदपरो वक्तुमीश्वरः ॥ ७० ॥ स्पष्टम् ||७०|| अथ क्रमप्राप्तमामगोररू संपृक्तद्विदलादिभोजनप्रतिषेधमाह आमगोरस संपृक्तद्विदलादिषु जन्तवः । दृष्टाः केवलिभिः सूक्ष्मास्तस्मात्तानि विवर्जयेत् ॥ ७१ ॥ इह हियं स्थितिः केचिद्भावा हेतुगम्याः केचित्त्वागमगम्यास्तत्र ये यथा हत्वादिगम्यास्ते तथैव प्रवचनधरैः प्रतिपादनीयां । आगमगप्येषु हेतून्, हेतुगम्येषु त्वागममात्रं प्रतिपादयम्नाज्ञाविराधकः स्यात् । यदाहजो देउवापक्खम्म उओ आगमे य आगमिओ । सो ससमयपन्नवओ सिद्धंतविराहओ अनो ॥ १ ॥ इत्यामगोरससंपृक्तद्विदलादौ न हेतुगम्यो जीवसद्भावः किन्त्वागमगम्य एव । तथाहि - आमगोरससंपृक्ते (१) यो हेतुवादपक्षे हेतुक आगमे चागमिकः । स स्वसमयप्रज्ञापकः सिद्धान्तविराधकोऽन्यः । F450 ततोय प्रकाशः ॥३३९॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy