________________
योगशास्त्रम्
॥३३८।।
060020
पल्वले सत्यपि ऊपरे क्षेत्रे शालीन् वपन्ति । यथा ह्यूषरे क्षेत्रे शालिवपनं निरर्थकं, तथा रात्रावेव मया भोक्तव्य मिति निष्फलो नियमः । अधर्मनिवृत्तिरूपो हि नियमः फलवानयं तु धर्मनिवृत्तिरूप इत्यफलो विपरीतफलो वा । ६६ । रात्रिभोजनस्य फलमाह -
उलूककाकमार्जारगृध्रशम्बरशूकराः । अहिवृश्चिकगोधाश्च जायन्ते रात्रिभोजनात । ६७ ।
रात्रिभोजनादुकादिषु जन्म भवति । उलूकादय उपलक्षणं तेनान्येष्वप्यधमतिर्यक्षु रात्रिभोजनो जायन्ते ॥ ६७॥ वनमालोदाहरणेन रात्रिभोजनदोषस्य महत्तां दर्शयति
श्रूयते ह्यन्यशपथानादृत्यैव लक्ष्मणः । निशाभोजनशपथं कारितो वनमालया ॥ ६८ ॥
श्रूयते रामायणे दशरथनन्दनो लक्ष्मणः पितृनिदेशात् सह रामेण सीतया च दक्षिणापथे प्रस्थितोऽन्तरा कूवरनगरे महीधरराजतनयां वनमालामुपयेमे, ततश्च रामेण सह परतो देशान्तरं यियासन् स्वभार्या वनमालां प्रतिमोचयति स्म, सा तु तद्विरहकातरा पुनरागमनमसम्भावयन्ती लक्ष्मणं शपथानकारयत् । यथा प्रिये ! रामं मनीषिते देशे परिस्थाप्य यद्यहं भवतीं स्वदर्शनेन न प्रीणयामि तदा प्राणातिपातादिपातकिनां गति यामीति सा तु तैः शपथैरतुष्यन्ती 'यदि रात्रिभोजनकारिणां शपथं करोषि तदा त्वां प्रतिमुञ्चामि नान्यथेति' तमुवाच स तथेत्यभ्युपगत्य देशान्तरं प्रस्थितवान् । एवमन्यशपथानादृत्य लक्ष्मणो वनमालया रात्रिभोजनशपथं कारितः विशेषचरितं तु ग्रन्थगौरवभयान्नेह लिख्यते ॥ ६८ ॥
तृतीय
प्रकाशः
||३३८||