________________
योग
शास्त्रम्
॥३३७॥
FOXOX KO
दोषास्तान जानन् रात्रिप्रत्यासन्नमपि मुहूर्त्त मुहूर्त्त सदोषत्वेन जानाति, अत एवागमे सर्वजघन्यं प्रत्याख्यानं मुहूर्त्त प्रमाणनमस्कारसहितमुच्यते । पाश्चात्यमुहूर्त्तादप्यर्वाक् श्रावको भोजनं करोति, तदनन्तरं रात्रिभोजनं प्रत्याख्याति ॥ ६३ ॥
ननु यो दिवैव भुङ्क्ते तस्य रात्रिभोजनप्रत्याख्याने फलं नास्ति, फलविशेषो वा कश्चिदुच्यतामित्याह— अकृत्वा नियमं दोषाभोजनाद्दिनभोज्यपि । फलं भजेन्न निर्व्याजं न वृद्धिर्भाषितं विना ॥ ६४ ॥ नियमं निवृत्ति, रात्रिभोजनादकृत्वा दिने भोक्तुं शीलमस्यासौ दिनभोजी सोऽषि निशाभोजनविरतेः फलं निर्व्याजं निश्छद्म न भजेत् न लभेत । कुत इत्याह- वृद्धिर्भाषितं विना, वृद्धिः कलान्तरं भाषितं जल्पितं बिना न स्यात् । लौकिकमेतद् यथा भाषितमेव कलान्तरं भवेदिति ॥ ६४ ॥
पूर्वोक्तस्य विपर्ययमाह -
ये वासरं परित्यज्य रजन्यामेव भुञ्जते । ते परित्यज्य माणिक्यं काचमाददते जडाः ॥ ६५ ॥ दिवसं परित्यज्य तच्छीलतया रात्रावेव ये भुञ्जते, दृष्टान्तः स्पष्टः ॥६५॥
ननु नियमः सर्वत्र फलवान् ततो यस्य ' रात्रावेव मया भोक्तव्यं न दिवसे' इति नियमस्तस्य का गतिरित्याहवासरे सति ये श्रेयस्काम्यया निशि भुञ्जते । ते वपन्त्यूषरक्षेत्रे शालीन् सत्यपि पल्वले ॥६६॥ श्रेयोतौ वासरभोजने सत्यपि कुशास्त्र संस्कारान्मोहाद्वा श्रेयस्काम्यया ये रात्रावेव भुञ्जते ते शालिवपनयोग्ये
OX: 9
तृतीय
प्रकाशः
॥३३७.