________________
योगशास्त्रम्
॥ ३३६ ॥
कुतः ? चण्डरोचिषः सूर्यस्यापायादस्तमयात् । अतो हृत्पद्मनाभिपद्मसङ्कोचाद्धेतोर्नक्तं रात्रौ न भोक्तव्यम्; सूक्ष्मजीवादनादपीति द्वितीयं निशिभोजनप्रतिषेधकारणम् । सूक्ष्मा ये जीवास्तेषामदनं भक्षणं, तस्मादपि रात्रौ न भोक्तव्यम् ॥ ६० ॥
परपक्षसंवादमभिधाय स्वपक्षं समर्थयते—
संसजज्जीवसङ्गतं भुञ्जाना निशिभोजनम् । राक्षसेभ्यो विशिष्यन्ते मूढात्मानः कथं नु ते ॥ ६१ ॥ संबध्यमानजीवसमूह, भोजनं भोज्यं, भुञ्जाना निशि रात्रौ राक्षसेभ्यः क्रव्यादेभ्यः कथं नु कथं नाम विशिष्यन्ते भिद्यन्ते ? राक्षसा एव ते इत्यर्थः । मूढात्मानो जडाः, अपि च, लब्धे मानुषत्वे जिनधर्मपरिष्कृते विरतिरेव कर्तुमुचिता, विरतिहीनस्तु शृङ्गपुच्छहीनः पशुरेव ॥६॥
एतदेवाह -
वासरे च रजन्यां च यः खादन्नेव तिष्ठति । शृङ्गपुच्छपरिभ्रष्टः स्पष्टं स पशुरेव हि ॥६२॥
स्पष्टम् ॥६१|| रात्रिभोजननिवृत्तेभ्योऽपि सविशेषपुण्यवतो दर्शयति
अनो मुखेऽवसाने च यो द्वे द्वे घटिके त्यजन् । निशा भोजनदोषज्ञोऽश्नात्यसौ पुण्यभाजनम् ॥
अहनो मुखे आरम्भे, अवसाने पश्चिमे भागे, द्वे द्वे घटिके मुहूर्त्त मुहूर्त्तं रात्रः प्रत्यासन्नं त्यजन् परिहरन्, योऽश्नाति स पुण्यभाजनम् । निशाभोजनदोषज्ञ इति निशाभोजने सम्पातिमजन्तुसम्पातलक्षणा ये
तृतीय प्रकाशः
।।३३६ ॥