________________
तृतीय प्रकाशा
पोगशास्त्रम् ॥३३५॥
रात्रिभोजनलक्षणमुख्यार्थबाधा, रात्रिभोजनस्य तत्र तत्र प्रतिषिद्धत्वादिति गौणार्थ एब नक्तशब्द इत्यसौ दिवसशेषभोजने वर्त्तते । तत्र निमित्तमुक्तं-मन्दीभूते दिवाकरे, मुख्यार्थप्रतिषेधाच्च न निशि भोजनं नक्तम् ।५७।
रात्रिभोजनप्रतिषेधमेव परकीयेण श्लोकद्वयेनाहदेवैस्तु भुक्तं पूर्वाहणे मध्याहूने ऋषिभिस्तथा ?। अपराहणे च पितृभिः सायाहूने दैत्यदानवैः॥५०॥ | सन्ध्यायां यक्षरक्षोभिः सदा भुक्तं कुलोद्वह ! । सर्ववेलां व्यतिक्रम्य रात्रौ भुक्तमभोजनम् ॥५९॥ ___ पूर्वमहः पूर्वाह्नः तस्मिन् देवैर्भुक्तं मध्यमहो मध्याहस्तस्मिन्नृषिभिर्भुक्तं, अपरमहो अपराहणस्तस्मिन् पितृभि भुक्तम् ; सायमहः सायाह्रो विकालस्तस्मिन् दैत्यैर्दितिजैर्दानवैर्दनुभुक्तम्, सन्ध्या रजनीदिनयोः प्रवेशनिष्काशौ तस्यां यक्षगुह्यक रक्षोभी राक्षसभुक्तम् । कुलोद्बहेति युधिष्ठिरस्यामन्त्रणम् । सर्वेषां देवादिनां वेला अक्सरस्तां व्यतिक्रम्य रात्री भुक्तमभोजनम् ॥ ५८ ॥ ५९ ॥
॥आयुर्वेदेश्प्युक्तम् ॥ एवं पुराणेन रात्रिभोजनप्रतिधस्य संवादमभिधायायुर्वेदेन संवादमाह-आयुर्वेदेऽप्युक्तमित्यनेन । आयुर्वेदस्तु | हन्नाभिपद्मसङ्कोचश्चण्डरोचिरपायतः । अतो नक्तं न भोक्तव्यं सूक्ष्मजीवादनादपि ॥६०॥
इह शरीरे द्वे पो; हृत्पद्यं च यदधोमुख, नाभिपद्मं च यद्धर्ध्वमुखं, द्वयोरपि च पद्मयोः रात्रौ सङ्कोचः;
॥३३५।।