________________
योगशास्त्रम्
तृतीय प्रकाश
॥३३४॥
भोज्यमभोज्यं प्रचक्षते ॥ ५४ ॥
येन शास्त्रेण बाह्या निशाभोज्यमभोज्यं प्रचक्षते तच्छास्त्रोपदर्शनाथं तद्यथेति तच्छास्त्रमेव पठति तद् यथात्रयीतेजोमयो भानुरिति वेदविदो विदुः । तत्करैः पूतमखिलं शुभं कर्म समाचरेत् ॥५५॥ __ त्रयी ऋग्यजुःसामलक्षणा तम्याम्तेजः प्रकृतं प्रस्तुतमस्मिन् त्रयीतेजोमयो भानुरादित्यः त्रयीतनुरिति ह्यादित्यस्य नाम । इति वेदविदो जानन्ति । तत इति शेषः । तत्करैर्भानुकरैः पृतं पवित्रीकृतमखिलं समस्तं शुभं कर्म
समाचरेत् तदभावे शुभं कर्म न कुर्यात् ।। ५५ ॥ एतदेवाह| नैवाहुतिर्न च स्नानं न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्रौ भोजनं तु विशेषतः ॥५६॥ _ आहुतिरग्नौ समिदाद्याधान, स्नानमङ्गप्रक्षालनं, श्राद्धं पितृकर्म, देवतार्चनं देवपूजा, दानं विश्राणनं न विहितमिति सर्वत्र नत्रो योगः, भोजनं तु विशेषतो न विहितमिति । ननु नक्तभोजनं श्रेयसे श्रूयते, न च रात्रिभोजनं विना तद्भवति ? उच्यते - नक्तशब्दार्थापरिज्ञानादेवमुच्यते ।। ५६ ॥ तदेवाहदिवसस्याष्टमे भागे मन्दीभूते दिवाकरे। नक्तं तु तद्विजानीयान नक्तं निशि भोजनम् ॥५७॥
दिवसस्य दिनस्याष्टमे भागे पाश्चात्येऽद्धप्रहरे योजनं तनक्तमिति विजानीयात् । द्विविधा हि शब्दस्य प्रवृत्तिमुख्या गौणी च, तत्र क्वचिन्मुख्यया व्यवहारः क्वचिन्मुख्यार्थबाधायां सत्यां गौण्या, नक्तशब्दस्य
વિકા