________________
***
******
योगशास्त्रम्
तृतीय
प्रकाशः
॥३४०ब।
॥३४०ब
**********
अपकृष्ट ध्यानमपध्यानं, तदनर्थदण्डस्य प्रथमो भेदः । तच्च द्वेधा-आर्त रौद्रं च, तत्र ऋतं दुःखं तत्र भवमात; यदि वा अतिः पीडा यातनं च, तत्र भवमातम् । तच्चतु -अमनोज्ञानां शब्दादीनां संप्रयोगे तद्विप्रयोगचिन्तनमसप्रयोगप्रार्थना च प्रथमम् । शूलादिरोगसम्भवे च तद्वियोगप्रणिधानं तदसंप्रयोगचिन्ता च द्विती यम् । इष्टानां च शद्वादीनां विषयाणां सातवेदनायाश्चावियोगाध्यवसानं संप्रयोगाभिलाषश्च तृतीयम् । देवेन्द्रचक्रवादिविभवप्रार्थनारूपं निदानं चतुर्थम् । यदाहुः१अमणुण्णाणं सद्दाइविसयवत्थूण दोसमइलस्स । धणि विओअचितणमसंपओगाणुसरणं च ॥१॥ २तह सूलसीसरोगाइवेयणाए विओअपणिहाणं । तदसंपओर्गाचता तप्पडियाराउलमणस्स ॥२॥ ३इठ्ठाणं विसयाईण वेयणाए अ रागरत्तस्स । अविओगज्झवसाणं तद संजोगाभिलासो अ॥३॥ ४देविंदचक्कवट्टित्तणाइगुणरिद्धिपत्थणामइयं। अहम नियाचितणमण्णाणाणगयमच्चतं ॥ ४ ॥ ५एयं चउम्विहं रागदोसमोहंकियस्स । अट्टज्झाणं संसारवद्धणं तिरियगइमूलं ॥ ५॥
*******
****************
(१) अमनोज्ञानां शद्वादीविषयवस्तूनां द्वेषलिनस्य । अत्यर्थं वियोगचिन्तनमसंप्रयोगानुसरण च ॥१॥ (२) तथा शूलशिरोरोगादिवेदनायाः वियोगप्रणिधानम् । तदसंप्रयोगचिन्ता तत्प्रतीकाराकुलमनसः ॥२॥ (३) इष्टानां विषयादीनां वेदनायाश्च रागरक्तस्य । अवियोगाध्यवसानं तथा संयोगाभिलाषश्च ॥ ३॥ (४) देवेन्द्र चक्रवत्तित्वादिगुद्धिप्रार्थनामयम् । अधमं निदानचिन्तनमज्ञानानुगतमत्यन्तम् ॥ ४॥ (५) एतत् चतुविधं रागद्वेषमोहाक्डितस्स जीवस्य । आर्तध्यानं संसारवर्द्धन तिर्यग्गतिमूलम् ॥५॥
****************