________________
योग
शास्त्रम् ॥३२८ ।।
XXOEM
मार्थपरिशीलनाविकलैः, नरकवेदनाहेतोरपि मधुनो माधुर्यवर्णनमबोधानामित्यह हेत्यनेन विषादो द्योत्यते । यस्य मधुन आस्वादाभरकवेदनाश्विरमासाद्यन्ते प्राप्यन्ते ॥ ४० ॥
पवित्रत्वात् मधु देवस्नानोपयोगीति ये मन्यन्ते तानुपहसति
मक्षिकामुखनिष्ठयुतं जन्तुघातोद्भवं मधु । अहो पवित्रं मन्वाना देवस्नाने प्रयुञ्जते ॥ ४१ ॥
मक्षिकाणां मुखानि तैर्निष्ठ्यतं वान्तं जन्तुघातात्प्राणिघातादुद्भवो यस्य तत्तादृशमपवित्रं मधु, पवित्रं शुचि मन्वाना अभिमन्यमानाः देवानां शङ्करादीनां स्नाने स्नाननिमितं प्रयुञ्जते व्यापारयन्ति अहो इत्युपहासे
यथा
करभाणां विवाहे
रासभास्तत्र गायनाः । परस्परं प्रशंसन्ति अहो रूपमहो ध्वनिः ॥ १ ॥ ४१ ॥ क्रमप्रासान् पञ्चोदुम्बरदोषानाह
उदुम्बरवटप्लक्षकाकोदुम्बरशाखिनाम् । पिप्पलस्य च नाश्रीयात्फलं कृमिकुलाकुलम् ॥४२॥ उदुम्बरबट प्लक्षकाकोदुम्बरिकापिप्पलानां पञ्चोदुम्बरसंज्ञितानां फलं नाश्नीयात् । अनशने कारणमाहयल्लौकिका अपि पेठु:
कोऽपि कापि कुतोऽपि कस्यचिदहो चेतस्यकस्माज्जनः केनापि प्रविशत्युदुम्बरफलप्राणिक्रमेण क्षणात् । येना
तृतीय
प्रकाशः
॥३२८॥