________________
वतीय
योगशास्त्रम् ॥३२९॥
प्रकाशः
स्मिन्नवि पाटिते विघटिते वित्रासिते स्फोटिते, निष्पिष्टे परिगालिते निर्यात्यसौ वा न वा ॥१॥ इति ॥४२॥
पश्चोदुम्बरफलविरतानां स्तुतिमाह| अप्राप्नुवन्नन्यभक्ष्यमपि क्षामो बुभुक्षया । न भक्षयति पुण्यात्मा पञ्चोदुम्बरजं फलम् ॥४३॥
यः पुण्यात्मा पवित्रात्मा पुरुषः, स पञ्चोदुम्बरजं फलं न भक्षयति, आस्तां सुलभधान्यफलसमृद्ध देशे काले वा, यावद्देशदोषात् कालदोषाद्वा अप्राप्नुवन्नप्यन्यभक्ष्यं धान्यफलादिभक्ष्यः अपिशब्द उत्तरत्रापि सम्बध्यते, बुभुक्षया क्षामोऽपि कृशोऽपि; अबुभुक्षितस्य स्वस्थस्य व्रतपालनं नातिदुष्करम् ; यस्तु अप्राप्तभोज्यः क्षुत्क्षामश्च ब्रतं पालयति स पुण्यात्मेति प्रशस्यते ॥४३॥
____ क्रमप्राप्तमनन्तकायनियमं श्लोकत्रयेण दर्शयतिआर्द्रः कन्दः समग्रोऽपि सर्वः किशलयोऽपि च । स्नुही लवणवृक्षत्वक् कुमारी गिरिकर्णिका ॥४४॥ शतावरी विरुढानि गुडूची कोमलाम्लिका । पल्ल्यकोऽमृतवल्ली च वल्लः शूकरसंज्ञितः ॥४५॥ अनन्तकायाः सूत्रोक्ता अपरेऽपि कृपोपरैः। मिथ्यादृशामविज्ञाता वर्जनीयाः प्रयत्नतः॥४६॥
आद्रोऽशुष्कः, शुष्कस्य तु निर्जीवत्वादनन्तकायत्वं न भवति, कन्दो भूमिमध्यगो वृक्षावयवः समग्रोऽपि, सर्वे कन्दा इत्यर्थः। ते च सूरणआर्द्रकलशुनवज्रकन्दहरिद्राकच्चूरपलाशकन्दगृञ्जनेलोढककसेरुकमुद्गरमुस्तामूलकआलुकपिण्डालुकहस्तिकन्दमनुष्यकन्दप्रभृतयः, किशलयः पत्रादाय बीजस्योच्छूनावस्था सर्वा न तु काचिदेव,
|॥३२९॥