________________
योग
शास्त्रम्
॥३२७॥
तद्भक्षयन् स्तोकपश्वादिजन्तुनिहन्तुभ्यः शौनिकेभ्यः खट्टिकेभ्योऽतिरिच्यते अधिकीभवति भक्षकोऽपि घातक इत्युक्तप्रायम् ||३७||
लौकिकानामप्युच्छिष्टभोजनत्याजिनामुच्छिष्टत्वान्मधु परिहर्त्तव्यमेवेत्याहएकैककुसुमक्रोडाद्रसमापीय मक्षिकाः । यद्वमन्ति मधूच्छिष्टं तदश्नन्ति न धार्मिकाः ॥३८॥ एकैकस्य कुसुमस्य यः क्रोड उत्सङ्गस्तस्माद्रसं मकरन्दमापीय पीत्वा, मक्षिकाः यद्वमन्ति उद्गिरन्ति, तदुच्छिष्टं मधुः धर्मं चरन्ति धार्मिकास्ते नाश्नन्ति । अनुच्छिष्टभोजनं हि धर्मों लौकिकानाम् ॥ ३८ ॥
ननु 'त्रिदोषशमनं मधु' नातः परमौषधमस्तीति रोगोपशात्तये मधुभक्षणे को दोष इत्याहअप्यौषधकृते जग्धं मधु श्वभ्रनिबन्धनम् । भक्षितः प्राणनाशाय कालकूटकणोऽपि हि । ३९ ।
आस्तां रसास्वादलाम्पटयेन यावदौषधकृतेऽपि औषधनिमित्तमपि मधु जग्धं यद्यपि रोगापहारकं, तथापि श्वस्य नरकस्य निबन्धनम् हि यस्मात् प्रमादाज्जीवितार्थितया वा कालकूटस्य विषस्य कणोऽपि लवोऽपि भक्षितः सन् प्राणनाशाय भवति ॥ ३५ ॥
ननु खर्जुरद्राक्षादिरसवन्मधु मधुरमिति सर्वेन्द्रियाप्यायकत्वात् कथं परिहाय्यै स्यादित्याहमधुनोऽपि हि माधुर्यमबोधैरहहोच्यते । आसद्यान्ते यदारवादाच्चिरं नरकवेदनाः ॥ ४० ॥ सत्यमस्ति मधुना माधुर्य व्यवहारतः परमार्थतस्तु नरकवेदनाहेतुत्वादत्यन्तकटुकत्वमेव । अबोधैरिति पर
तृतीय
प्रकाशः
॥३२७||