________________
योगशास्त्रम्
तृतीय प्रकाशा
॥३२६॥
यस्मिन्नवनीते, मूर्च्छन्ति उत्पद्यन्ते, तन्नवनीतं, नाद्यं न भक्षणीय, विवेकिभिः ॥ ३४ ॥
एनमेवार्थ भावयतिएकस्यापि हि जीवस्य हिंसने किमघं भवेत् । जन्तुजातमयं तत् को नवनीतं निषेवते ? ३५
एकस्यापि हि जन्तोर्वधे किं निर्देष्टुमशक्यमघं पापं भवेत् तत्तस्माज्जन्तुजातं प्रकृतमस्मिस्तज्जन्तुजातमयं नवनीतं को निषेवते कः सविवेकोऽश्नाति ? ॥ ३५ ॥
क्रमप्राप्तान्मधुदोषानाह| अनेकजन्तुसङघातनिघातनसमुद्भवम् । जुगुप्सनीयं लालावत् कः स्वादयति माक्षिकम् ? ३६
अनेकस्य जन्तुसङ्घातस्य यनिघादनं विनाशस्तस्मात् समुद्भवो यस्य तत्तथा । निघातनमिति हन्त्यर्थाश्चेति इन्तेश्चुरादिपाठात् णिजन्तस्य रूपम् । अयं परलोकविरोधो दोषः, जुगुप्सनीयं कुत्सनीयं, लालावल्लालामिव, अर्यामह लोकविरोधो दोषः, कः सचेतनः, स्वादयति भक्षयति, मक्षिकाभिः कृतं माक्षिकं मधु एतच्च भ्रमरादीनामुपलक्षणम् ॥ ३६ ॥ इदानीं मधुमक्षकाणां पापीयस्तां दर्शयतिभक्षयन्माक्षिक क्षुद्रजन्तुलक्षक्षयोद्भवम् । स्तोकजन्तुनिहन्तृभ्यः शौनिकेभ्योऽतिरिच्यते ३७
क्षुद्रजन्तुरनस्थिः स्यादथवा क्षुद्र एव यः । शतं वा प्रसूतिर्येषां केचिदानकुलादपि ॥ १॥ तषां क्षुद्रजन्तूनां लक्षाणि, लक्षग्रहणं बहूत्वोपलक्षणम् । तेषां क्षयो विनाशस्तस्मादुद्भवो यस्य तत्तथा,
३२६॥