________________
ततोय
योगशास्त्रम् ॥३२५।।
प्रकाशा
स्ववधाशक्यैव तैः ॥ ४॥ विशेष यो न मन्येत तृमांसपशुमांसयोः धार्मिकस्तु ततो नान्यः पापीयानपि नापरः ॥५॥ शुक्रशोणितसम्भूतं विष्टारसविवदितम् । लोहितं स्त्यानताप्रासं कोऽश्नीयादकृमिः पलम् ? ॥ ६ ॥ अहो द्विजातयो धर्म शौचमूलं वदन्ति च । सप्तधातुकदेहोत्थं मांसमश्नन्ति चाधमाः ॥७ ॥ येषां तु तुल्ये मांसान्ने सतृणाभ्यवहारिणाम् । विषामृते समे तेषां मृत्युजीवितदायिनी ॥ ८॥ भक्षणीयं सतां मांसं प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं ये चानुमिमते जडाः ॥९॥ गोसम्भवत्वात्ते मृत्रं पयोक्न्न पिबन्ति.किम् ? प्राण्य
तानिमित्ता च नौदनादिषु भक्ष्यता ॥ १०॥ शङ्खादि शुचि नास्थ्यादि प्राण्यङ्गत्वे समे यथा । ओदनादि तथा भक्ष्यमभक्ष्यं पिशितादिकम् ॥ ११॥ यस्तु प्राण्यङ्गमात्रत्वात् प्राह मांसौदने समे । स्त्रीत्वमात्रान्मातृपत्न्योः स कि साम्यं न कल्पयेत् ? ॥ १२॥ पञ्चेन्द्रियस्यैकस्यापि वधे तन्मांसभक्षणात् । यथा हि नरकप्राप्तिन तथा धान्यभोजनात् ॥ १३॥ न हि धान्यं भवेन्मांस रसरक्तविकारमम् । अमांसभोजिनस्तस्मान्न पापा धान्यभोजिनः ॥१४॥ धान्यपाके प्राणिवधः परमेकोऽवशिष्यते । गृहिणां देशयमिनां स तु नात्यन्तबाधकः ॥१५॥ मांसखा दकगतिं विमृशन्तः, सस्यभोजनरता इइ सन्तः। प्राप्नुवन्ति सुरसम्पदसुच्चै-जैनशासनजुषो गृहिणोऽपि ॥१६॥३३॥
क्रमप्राप्त भवनीतमक्षणदोपमाह| अन्तर्मुहूर्तात्परतः सुसूक्ष्मा जन्तुराशयः । यत्र मूर्छन्ति तन्नायं नवनीतं विवेकिभिः ॥३४॥
अर्मभ्यं मुहूर्तस्य अन्तर्मुहूर्त, तस्मात् परत ऊध्वं, अतिशयेन सूक्ष्माः, सुसूक्ष्माः जन्तुराशयो जन्तुसमूहाः
॥३२५॥