SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥३२४॥ तृतीय प्रकाशा पापाय स्यात् । उच्यते-यवाल्पमपि यवतुल्यप्रमाणमपि नाद्यात् पलमिति संबध्यते, तदपि दोषाय, अत्रोत्तरार्द्धन निदर्शनम् ॥३२॥ इदानीमनुत्तरं मांसस्य दोषमुपदर्शयन्नुपसंहरतिसद्यः संमूछितानन्तजन्तुसन्तोनदूषितम् । नरकाध्वनि पाथेयं कोऽश्नीयात्पिशितं सुधीः? ॥३३॥ ___ सद्यो जन्तुविशसनकाल एव संमृच्छिता उत्पन्ना अनन्ता निगोदरूपा ये जन्तवस्तेषां सन्तानः पुनः पुनभवनं तेन दूषितम् । यदाह१आमासु अ पक्कासु अ विपच्चमाणासु मंसपेसीसु । सययं चिय उववाओ भणिओ उ निगोअजीवाणं ॥१॥ तत एव नरकाध्वनि पाथेयम् , पिशितभक्षणस्य पाथेयत्वे पिशितमपि पाथेयमुक्तं, कोऽश्नीयात्पिशितं सुधीरित्युपसंहारः। अत्रान्तरश्लोकाः____ मांसलुब्धैरमर्यादैर्नास्तिकैः स्तोकदर्शिभिः । कुशास्त्रकारवैयात्याद्गदितं मांसभक्षणम् ॥१॥ नान्यस्ततो गतघृणो नरकार्चिष्मदिन्धनम् । स्वमांसं परमांसेन यः पोषयितुमिच्छति ॥२॥ स्वाङ्गं पुष्णन्नृगूथेन वरं हि गृहशूकरः। प्राणिघातोद्भवैर्मा सैन पुनर्निधणो नरः ॥३॥ निःशेषजन्तुमांसानि भक्ष्याणीति य उचिरे । नृमांसं वर्जितं शङ्क (१) आमासु च पकासु च विपच्यमानासु मांसपेशीषु । सततमेव उपपातो भणितस्तु निगोदजीवानाम् ॥१॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy