________________
योगशाखम् ॥३२३॥
तृतीय प्रकाशा
तिविहितत्वादनोद्यमेतदिति चेन्न । श्रतिभाषितेष्वप्रामाणिकेषु प्रत्ययस्य कर्तुमशक्यत्वात् । श्रूयन्ते हि श्रुतिवचांसि-यथा पापघ्नो गोस्पर्शः, दुमाणां च पूजा; छागादीनां वधः स्वर्ग्यः । ब्राह्मणभोजनं पितृप्रीणनं, मायावीन्यधिदेवतानि, वह्नौ हुतं देवप्रीतिप्रदम् । तदेवं विधेषु श्रुतिभाषितेषु युक्तिकुशलाः कथं श्रद्दधीरन् ? । यदाहस्पर्शोऽमेध्यभुजां गवामघहरो वन्द्या विसंज्ञा द्रमाः, स्वर्गश्छागवधाद्धिनोति च पितृन् विप्रोपभुक्ताशनम् । आप्ताश्छद्मपराः सुराः शिखिहुतं प्रीणाति देवान् हविः, स्फीतं फल्गु च वल्गु च श्रुतिगिरां को वेत्ति लीलायितम् ? ॥१॥ तस्मान्महामोह एवायं मांसेन देवपूजाऽऽदिकमित्यलं विस्तरेण ॥३१॥ ननु मन्त्रसंस्कृतो वहिन दहति पचति वा, तन्मन्त्रसंस्कृतं मांसं न दोषाय स्यात् । यन्मनु:असंस्कृतान् पशून्मन्त्रै धाद्विप्रः कथश्चन । मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ॥१॥ शाश्वतो नित्यो वैदिक इत्यर्थः । अत्राहमन्त्रसंस्कृतमप्यद्याद्यवाल्पमपि नो पलम् । भवेज्जीवितनाशाय हालाहललवोऽपि हि॥३२॥ __ मन्त्रसंस्कृतमपि मन्त्रपूतमपि, पलं नाद्यात् , न हि मन्त्रा अग्नेर्दहनशक्तिवनरकादिप्रापणशक्ति मांसस्य प्रतिबध्नन्ति । तथा सति सर्वपापानि कृत्वा पापघ्नमन्त्रानुस्मरणमात्रात् कृता भवेयुः। एवं च सर्वपापप्रतिषेधोऽपि निरर्थकः स्यात् , सर्वपापानां मन्त्रादेव नाशप्रसक्तः। अथ यथा स्तोकं मद्यं न मदयति तथा स्वल्पं मांसं न
11223