________________
तृतीय
योगशास्त्रम्
प्रकाशा
॥३२२॥
इदानीं मांसभक्षकाणां मूढतामुपदर्शयति| केचिन्मांसं महामोहोदश्नन्ति न परं स्वयम् । देवपित्रतिथिभ्योऽपि कल्पयन्ति यदूचिरे ॥३०॥
केचित् कुशास्त्रविप्रलब्धा महतो मोहान केवलं स्वयं मांसमश्नन्ति किन्तु देवेभ्यः पितृभ्योऽतिथिभ्यश्च कल्पयन्ति, यद्यस्मादूचिरे तद्धर्मशास्त्रकाराः ॥३०॥
उक्तमेवाहa क्रीत्वा स्वयं वाऽप्युत्पाद्य परोपहृतमेव वा। देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दुष्यति।३१।
मृगपक्षिमांसविषयमेतच्छास्त्रं, तेन सूनापणमांसं विना व्याधशाकुनिकादिभ्यः क्रीत्वा मूल्येन । सूनापणमांसे तु देवपूजादावनधिकृतेः । तथा स्वयमुत्पाद्य-ब्राह्मणो याश्चया, क्षत्रियो मृगया कर्मणा, अथवा परेणोपहृतं ढौकितं तेन मांसेन देवानां पितृणां चार्चनं कृत्वा मासं खादन्न दुष्यति, एतच्च महामोहादिति वदद्भिरस्माभिर्दृषि तमेव । स्वयमपि हि प्राणिघातहेतुकं मांस भक्षयितुमयुक्तं किं पुनर्देवादिभ्यः कल्पयितुम् । देवा हि सुकृतसम्भारलब्धात्मानोऽधातुकशरोरा अकावलिकाहाराः कथं मांस भक्षयेयुः? अभक्षयद्भचस्तत्कल्पनं मोह एव । पितरश्च स्वसुकृतदुष्कृतवशेन प्राप्तगतिविशेषाः स्वकर्मफलमनभवन्तो न पुत्रादिकृतेनापि मुकृतेन तार्यन्ते कि पुनर्मासढौकनदुष्कृतेन ? । न च पुत्रादिकृतं सुकृतं तेषासुपतिष्ठते । न ह्यानेषु सेकः कोविदारेषु फलं दत्ते । अतिथिभ्यश्च सत्कारार्हेभ्यो नरकपातहेतोर्मा सस्य दौकनं महते अधर्माय । एवं परेषां महामोहचेष्टितम् । श्रुतिस्मृ
॥३२२॥