________________
योगशास्त्रम्
तृतीय प्रकाशा
॥३२१॥
।
दिव्यभोज्येषु सकलधातुबहकेषु सर्वेन्द्रियप्रीतिप्रदेषु क्षीरक्षरेयी किलाटीकूर्चिकारसालादध्यादिषु मोदकमण्डकमण्डिकाखाद्यकपर्पटिकाघृतपुरादिषु इण्डेरिकापूरणवटकवटिपपर्पटादिषु इक्षुगुडखण्डशर्करादिषु द्राक्षासहकारकदलदाडिमनालिकेरनारङ्गखर्जूराक्षोटराजादनपनसादिषु च सत्स्वपि तान्यनादृत्य ये मूढा विस्नगन्धिजुगुप्साकर शकाप्रधानानां वान्तिकरं मांसं भक्षयन्ति ते जीवितवृद्धिहेत्वमृतरसपरिहारेण जीवितान्तकरं हलाहलं विषभेदं भुञ्जते । बालोऽपि हि दृषत्परिहारेण सुवर्णमेवादत्त इति बालादपि मांसभक्षिणो बालाः ॥ २८॥
भयन्तरेण मांसभक्षणदोषमाहनधर्मो निर्दयस्यास्ति पलादस्य कुतो दया । पललुब्धो न तद्वेत्ति विद्याद्वोपदिशेन्न हि॥२९॥
निर्दयस्य कृपारहितस्य, धर्मों नास्ति, धर्मस्य दया मूलमिति ह्यामनन्ति । ततः प्रस्तुते किमायातमत आहपलादस्य कुतो दया, पलादस्य मांसोपजीविनः, कुतो दया ? नैव दयेत्यर्थः, भक्षकस्य वधकत्वेनोक्तत्वात, वधकच कथं सदयो नाम इति पलादस्य निर्धमता लक्षणो दोषः । ननु सचेतनः, कथमात्मनि धर्माभावं सहेत ? उच्यते-पललुब्धो न तद्वेत्ति मांसलोभेन न तत्पूर्वार्धोक्तं जानाति । अथ कथश्चिद्विद्याज्जानीयात्तहि स्वयं मांसलुब्धो मांसनिवृत्तिं कर्तुमशक्नुवन् सर्वेऽपि मम सदृशा भवन्त्विति परेभ्यो मांसनिषेधं नोपदिशेदाजिणकवत् । श्रयते हि कश्चिदाजिणको मार्गे गच्छन्नेकया सर्पिण्या भक्षितस्तत्सर्वेऽपि भक्ष्यन्तामनयेति बुद्धया परेभ्यो नाख्यातवानिति द्वितीयोऽपि तयैव दष्टो नान्येषां कथितवान् , एवं यावत्सप्त दष्टाः। मांसभक्षकोपि मांसभक्षणात्स्वयं नरके पतन् “स्वयं नष्टाः दुरात्मानो नाशयन्ति परानपि" इति न परेभ्य उपदिशति ॥ २९॥
PR|॥३२१५