________________
योगशास्त्रम्
तृतीय प्रकाशा
॥३२०॥
महाजनपूज्या एवमुपदिशन्ति । अपि च । निवृत्तिस्तु महाफलेति वदद्भिर्येषां निवृत्तिर्महाफला तेषां प्रवृत्तिन दोषवतीति स्वयमेव स्ववचनविरोध आविष्कृत इति किमन्यद महे ॥२५॥
निरुक्तबलेनापि मांसस्य परिहार्यत्वमाहमां स भक्षयिताऽमुत्र यस्य मांसमिहाम्यहम् । एतन्मांसस्य मांसत्वे निरुक्तं मनुरब्रवीत् ॥२६॥
मांस भक्षयितेति अत्र स इति सर्वनामसामान्यापेक्षं योग्येनार्थेन निराकाक्षीकरोति-यस्य मांसमहमझि, इहेति इहलोके, अमुगति परलोके, एतन्मांसस्य मांसत्वे मांसरूपतायां, निरुक्तं नामधेयनिर्वचनं मनुरब्रवीत् ॥२६॥
मांसभक्षणे महादोषमाह| मांसास्वादनलुब्धस्य देहिनं देहिनं प्रति। हन्तुं प्रवर्त्तते बुद्धिः शाकिन्या इव दुर्धियः॥२७॥
मांसभक्षण लम्पटस्य देहिनं देहिनं प्रति यं यं पश्यति जलचरं मत्स्यादिकं, स्थलचरं मृगवराहादि अजाऽविकादि च, खेचरं तित्तिरिलावकादि, अन्ततो मूषिकाद्यपि तं तं प्रति हन्तुं हननाय बुद्धिः प्रवर्त्तते; दुर्धियो दुर्बुदः। शाकिन्या इव-यथा हि शाकिनी यं यं पुरुषं स्त्रियमन्यं वा प्राणिनं पश्यति, तं तं हन्तुं तस्या बुद्धिः प्रवर्त्तते, तथा मांसास्वादनलुब्धस्यापीति ॥२७॥ ___ अपि च मांसभक्षिणामुत्तमपदार्थपरिहारेण नीचपदार्थोपादानं महबुद्धिवैगुण्यं दर्शयतीति दर्शयन्नाह| ये भक्षयन्ति पिशितं दिव्यभोज्येषु सत्स्वपि । सुधारसं परित्यज्य भुञ्जते ते हलाहलम् ॥२८॥
॥२०॥