________________
योग
शास्त्रम्
॥३१९॥
तृतीय प्रकाशा ॥३१९॥
१एकस्स कए नियजीवियस्स बहुआउ जीवकोडीओ। दुक्खे ठवंति जे केवि ताण किं २सासयं जीयं ? ॥१॥२३॥
___ एतदेव सजुगुप्समाहमिष्टान्नान्यपि विष्टासादमृतान्यपि मूत्रसात् । स्युर्यस्मिन्नङ्गकस्यास्य कृते कः पापमोचरेत् ॥२४॥
मिष्टान्नानि शालिमुद्माषगोधूमादीनि तान्यपि विष्टासाद्विष्टात्वेन स्युः संपधेरन् । अमृतानि पयःप्रभृतीनि तान्यपि मूत्रसान्मूत्रत्वेन स्युः संपोरन यस्मिन् (अङ्ग)। अस्य प्रत्यक्षस्य अङ्गकस्य कुत्सितस्य शरीरस्य. कृते निमित्तं, कः सचेतनः पापं प्राणिघातलक्षणमाचरेत् विदधीत ? ॥२४॥
इदानीं मांसभक्षणं न दोषायेति बदतो निन्दतिमांसाशने न दोषोऽस्तीत्युच्यते यैर्दुरात्मभिः। व्याधगृध्रवृकव्याघ्रश्रृगालास्तैर्गुरुकृताः ॥२५॥ मांसभक्षणे न दोषोऽस्तीति यैरुच्यते दुरात्माभिर्दुःस्वभावैः, यथा" न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला" ॥१॥ इति । तैाधा लुब्धकाः, गृध्रा हिंसाः पक्षिविशेषाः, वृका अरण्यश्वानाः, व्याघ्राः शार्दूलाः, शृगाला जम्बुकाः, गुरुकृताः उपदेशकाः कृताः। न हि व्याधादीन गुरून् विना कश्चिदेवंविधं शिक्षयति, न चाशिक्षितं (१) एकस्य कृते निजजीवितस्य बहुका जीवकोटीः। दुःखे स्थापयन्ति ये केऽपि तेषां किं शाश्वतो जीवः? (२) सासओ अप्पा । इतिप्रत्यन्तरे ।