________________
योग
तृतीय प्रकाशा
शास्त्रम् ॥३१८॥
॥३१८
अनुमन्ता अनुमोदकः, विशसिता हतस्याङ्गविभागकरः, निहन्ता व्यापादकः, क्रयविक्रयी क्रयविक्रयौ विद्यते यस्य स तथा, क्रेता विक्रता चेत्यर्थः, संस्कर्ता मांसपाचकः, उपहर्ता परिवेष्टा, खादको भक्षकः, एते सर्वे घातकाः ॥२१॥ द्वितीयमपि मानवं श्लोकमाहनाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वय॑स्तस्मान्मांसं विवर्जयेत्॥२२॥ ___ यावत्प्राणिनो न हतास्तावन्मांसं नोत्पद्यते, हिंसा चातिशयेन दुःखावहा, तस्मान्मांसं विवर्जयेत् , उत्पद्यत इति मांसस्य हिंसानिमित्तत्वात् कर्तव्यपदेश इति समानकर्तकत्वमविरुद्धम् । न च स्वर्ग्य इति न स्वर्गानुत्पत्तिमात्रम-भिप्रेतमपि तु नरकादिदुःखहेतुता ॥२२॥
इदानीमन्यपरिहारेण भक्षकस्यैव वधकत्वमाहये भक्षयन्त्यन्यपलं स्वकोयपलपष्टये। त एव घातका यन्न वधको भक्षकं विना ॥२३॥ __ अन्यपलमन्यमांसं स्वमांसपुष्टये ये भक्षयन्ति त एव परमार्थतो घातका न तु हन्तृविक्रेत्प्रभृतयः । अत्र युक्तिमाह-यद्यस्मान्न भक्षकं विना वधको भवति; ततो हन्तुप्रभृतिभ्यो भक्षकः पापीयान, स्वकीयपलपुष्टय इति हिंसाभिप्राय स्वपलपोषणमात्रप्रयोजनः कतिपयदिनजीवितः परजीवितप्रहाणं कुर्यात् । यदाहहंतूणं परपाणे अप्पाणं जे कुणंति सप्पाणं अप्पाणं दिवसाणं करण नासेंति अप्पाणं ॥१॥ तथा(१) हत्वा परप्राणान् आत्मानं ये कुर्वन्ति सप्राणम् । अल्पानां दिवसानां कृतेन नाशयन्ति आत्मानम् ।