________________
योग
शास्त्रम्
॥३१७॥
BOOK OR FOR
अथ मांस चिखादिषमपि प्राणिदयां करिष्यतीत्याह
अशनीयन् सदा मांसं दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्लीं स रोपयितुमिच्छति ॥१९॥ सदा सर्वदा, मांसमशनीयन्, मांसमशनमिवाचरन्, पुत्रीयति च्छात्रमितिवत् " आधाराच्चोपमानादाचारे " ||३||४||२४|| इति क्यनि रूपम्, दयां कृपां यः कश्चित् हि स्फुटं चिकीर्षति कर्तुमिच्छति । ज्वलतीत्यादिना निदर्शनम्, यथा ज्वलत्यग्नौ वल्लीरोपणमशक्यम्, तथा मांसमशनीयता दयाऽपि कर्तुमशक्येत्यर्थः ॥ १९ ॥ नन्वन्यः प्राणिनां घातकोऽन्यश्च मांसभक्षक इति कथं मांसभक्षकस्य प्राणिप्राणापहरणमिति ? उच्यतेभक्षकोsपि घातक एवेत्याह
हन्ता पलस्य विक्रेता संस्कर्त्ता भक्षकस्तथा । क्रेताऽनुमन्ता दाता च घातका एव यन्मनुः ॥ २० ॥
इन्ता शस्त्रादिना प्राणिनां प्राणापहारकः, पलस्य विक्रेता यो मांसं विक्रिणीते । पलस्येत्युत्तरेष्वपि पदेषु सम्बन्धनीयम् । संस्कर्त्ता यो मांसं संस्करोति, भक्षकः खादकः क्रेता यो मांसं क्रीणाति, अनुमन्ता यः प्राणिहिंसया मांसमुत्पाद्यमानमनुमोदते, दाता यो मांसमतिध्यादिभ्यो ददाति एते साक्षात्पारम्पय्र्येण वा घातका एव प्राणिप्राणापहारका एव, यन्मनुरिति संवादार्थम् ॥२०॥
मानवमेवोक्तं दर्शयति—
अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्त्ता चोपहर्त्ता च खादकश्चेति घातकाः ॥२१॥
BOOK OR MOR
तृतीय
प्रकाशः
॥३१७॥