________________
| तृतीय
योगधानम् ॥३१६॥
प्रकाशा
मुक्क्ते परस्त्रियं सद्यो मद्योन्मादकदर्थितः ॥४॥ रटन् गायन् लुठन् धावन् कुप्यंस्तुष्यन् रुदन् हसन । स्तननमन् भ्रमंस्तिष्ठन् सुरापः पापराट् नटः॥५॥ श्रूयते किल शाम्बेन मद्यादन्धम्भविष्णुना । हतं वृष्णिकुलं सर्व प्लोषिता च पुरी पितुः॥६॥ पिबन्नपि मूहुर्मयं मद्यपो नैव तृप्यति । जन्तुजातं कवलयन् कृतान्त इव सर्वदा ॥७॥ लौकिका अपि मद्यस्य बहुदोषत्वमास्थिताः। यत्तस्य परिहार्यत्वमेवं पौराणिका जगुः ॥८॥ कश्चिदृषिस्तपस्तेपे भीत इन्द्रः सुरस्त्रियः। क्षोभाय प्रेषयामास तस्यागत्य च तास्तकम् ॥९॥ विनयेन समाराध्य वरदाभिमुखं स्थितम् । जगुर्मा तथा मांस सेवस्वाब्रह्म चेच्छया ॥१०॥ स एवं गदितस्ताभियोर्नरकहेतुताम् । आलोच्य मद्यरूपं च शुद्धकारणपूर्वकम् ॥११॥ मयं प्रपद्य तद्भोगान् नष्टधर्मस्थितिमदात् । विदंशार्थमजं हत्वा सर्वमेव चकार सः॥१२॥ अवद्यमूलं नरकस्य पद्धति, सर्वापदां स्थानमकीर्त्तिकारणम् । अभव्यसेव्यं गुणिभिगिर्हितं, विवर्जयेन्मद्यमुपासकः सदा ॥१३॥१७॥
अथ मांसदोषानाह| चिखादिषति यो मांसं प्राणिप्राणापहारतः। उन्मूलयत्यसौ मूलं दयाऽऽख्यं धर्मशाखिनः ॥१८॥
चिखादिषति खादितुमिच्छति, यःकश्चित, मांसं पिशितं । असौ पुमान् , उन्मूलयति, किं तत् ? मूलं दयासंज्ञकं, कस्य ? धर्मशाखिनः पुण्यवृक्षस्य, । मांसखादने कथं धर्मतरोर्दयास्यं मूलमुन्मूल्यते ? इत्याहप्राणिप्राणापहारतः प्राणिप्राणापहारादेतोः, न हि प्राणिप्राणापहारमन्तरेण मांसं संभवतीति ॥१८॥
॥३१॥