________________
पोगशास्त्रम्
तृतीय प्रकाशा
॥३१५॥
विदधत्यङ्गशथिल्यं ग्लपयन्तीन्द्रियाणि च । मूर्छामतुच्छां यच्छन्ती हाला हालोहलोपमा ॥१५॥ ___ हाला सुरा, हालाहलोपमा हालाहलो विषविशेषस्तत्सदृशी। साधारणधर्मानाह-विदधती कुर्वाणा अङ्गशैथिल्यं शरीरविशंस्थुलत्वम् । ग्लपयन्तो कार्याक्षमाणि कुर्वती इन्द्रियाणि चक्षुरादीनि । मूर्छा चैतन्याभावस्तामतुच्छां प्रचुरां यच्छन्ती । अङ्गशैथिल्यादयो हालाहालाहलयोः साधारणा धर्माः॥१५॥ तथाविवेकः संयमो ज्ञानं सत्यं शौचं दया क्षमा । मद्यात्प्रलीयते सर्व तृण्या वहिनकणादिव ॥१६॥
विवेको हेयोपादेयज्ञानं, संयम इन्द्रियवशीकारः, ज्ञानं शास्त्रावबोधः, सत्यं तथ्या भाषा, शौचमाचारशुद्धिः, दया करुणा, क्षमा क्रोधस्यानुत्पाद उत्पन्नस्य वा विफलीकरणम् । मद्यान्मद्यपानात् प्रलीयते नाशमुपयाति | सर्व विवेकादि । यथा वह्निकणात् तृण्या तृणसमूहः । तृणानां समूहस्तृण्या, पाशादित्वाल्ल्यः॥१६॥ दोषाणां कोरणं मद्यं मद्यं कारणमापदाम् । रोगातुर इवापथ्यं तस्मान्मद्यं विवर्जयेत् ॥१७॥ ____ दोषाणां चौर्यपारदारिकत्वादीनां कारणं हेनुः, मद्यपानरतो हि किं किमकार्य न कुरुते ? दोषकारणत्वादेव चापदां वधबन्धादीनां कारणं, तस्मान्मय विवर्जयेदित्युपसंहारः। रोगातुर इवापथ्यमित्युपमानम् । अत्रान्तरश्लोकाः
रसोद्भवाश्च भूयांसो भवन्ति किल जन्तवः । तस्मान्मद्य न पातव्यं हिंसापातकभीरुणा ॥१॥ दत्तं न दत्तमात्तं च नातं कृतं च नो कृतम् । मृषोद्यराज्यादिव हा स्वैरं वदति मद्यपः ॥२॥ गृहे बहिर्वा मार्गे वा परद्रव्याणि मूढधीः । वधबन्धादिनिर्भीको गृह्णात्याच्छिद्य मद्यपः ॥३॥ बालिकां युवतीं वृद्धां ब्राह्मणी श्वपचीमपि
॥३१५॥