________________
योगशास्त्रम्
तृतीय
प्रकाशा
॥३१॥
न जानाति परं स्वं वा मद्याचलितचेतनः । स्वोमीयति वराकःस्वं स्वामिनं किङ्करीयति॥१०॥
मद्याद्धेतोः चलितचेतनो नष्टचैतन्यः सन् , स्वमात्मानं, परं वा आत्मव्यतिरिक्तं, न जानाति अत्र हेतुमाह -यत आत्मानमजानन् स्वं स्वामिनमिवाचरति, वराकश्चैतन्यहीनत्वादनुकम्पनीयः। परमजानन् स्वामिनं नार्थ किङ्करमिवाचरति ॥१०॥ तथा-- | मद्यपस्य शवस्येव लुठितस्य चतुष्पथे। मूत्रयन्ति मुखे खानो व्यात्ते विवरशङ्कया ॥११॥
स्पष्टः ॥११॥ तथा-- | मद्यपानरसे मग्नो नग्नः स्वपिति चत्वरे । गूढं च स्वमभिप्रायं प्रकाशयति लीलया ॥१२॥ ___ मद्यस्य पानं तत्र रस आसक्तिस्तत्र मग्नो निषण्ण मद्यपानव्यसनीत्यर्थः। अत एव वस्त्रमपि स्वस्तमजानन् नग्नः स्वपिति चत्वरे, न तु गृह एव । दोषान्तरं च-गूढं केनाप्यविदितं, स्वमभिप्राय राजद्रोहादिकं प्रकाशयति प्रकटीकरोति लीलया बन्धनताडनादिव्यतिरेकेणापि ॥१२॥ तथा-- वारुणीपानतो यान्ति कान्तिकीर्तिमतिश्रियः । विचित्राश्चित्ररचना विलुठत्कज्जलादिव ॥१३॥
वारुणीपानतो मद्यपानात् , यान्त्यपगच्छन्ति, कान्तिः शरीरतेजः, कीर्तिर्यशः, मतिस्तात्कालिकी प्रतिभा, श्रीः सम्पत् । विचित्रा इत्याद्युपमानं स्पष्टम् ॥१३॥ तथाभूतात्तवन्नरीनति रारटीति सशोकवत् । दाहज्वरातवद्भूमौ सुरोपो लोलुठीति च॥१४॥ भूतात्तो व्यन्तरविशेषपरिगृहीतः, त्रीण्यपि क्रियापदानि भृशाभीक्ष्णयोर्यलुबन्तानि ॥१४॥ तथा
॥३१४॥