________________
योगशास्त्रम् ॥३१३।।
तृतीय प्रकाशा
मयं मांसं नवनीतं मधुदुम्बरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च भोजनम् ॥६॥ आमगोरससंपृक्तं द्विदलं पुष्पितौदन । दध्यहतियातीतं कुथितान्नं च वर्जयेत् ॥७॥
तत्र मधं द्विधा-काष्ठनिष्पन्न, पिष्टनिष्पमं च, मांसं त्रिधा-जलस्थलखचरमांसभेदेन । मांसग्रहणेन चर्मरुधिर मेदोमज्जानः परिगृह्यन्ते । नवनीतं गोमहिष्यजाऽविसम्बन्धेन चतुर्दा । मधु धा-माक्षिकं, भ्रामरं, कौत्तिकं च । उदुम्बरपञ्चकादयो यथास्थानं व्याख्यास्यन्ते ॥६॥७॥
तत्र मद्यस्य वर्जनीयत्वहेतून् दोषान् श्लोकदशकेनाहमदिरापानमात्रेण बुद्धिर्नश्यति दूरतः । वैदग्धीबन्धुरस्यापि दौर्भाग्येणेव कामिनी ॥६॥
वैदग्धीबन्धुरस्यापि छेकस्यापि पुंसो, मदिरापानमात्रेण बुद्धिनश्यति क्षयं याति, दुरतो दूरं यावत् सर्वथा विनश्यतीत्यर्थः । अत्रोपमानं दौर्भाग्येणेव कामिनीति । वैदग्धीबन्धुरस्यापि दुरत इति चात्रापि सम्बध्यते । तेन यथा विदग्धस्यापि दौर्भाग्यदोषेण कामिनी नश्यति पलायते, दुरतो दुरादपि ॥८॥ तथापापाः कादम्बरीपानविवशीकृतचेतसः । जननी हा प्रियीयन्ति जननीयन्ति च प्रियाम् ॥९॥ ___ कादम्बरी मदिरा, जननी मातरं, हा इति खेदे, प्रियीयन्ति प्रियामिव जायामिवाचरन्ति, प्रियां च जननीयन्ति जननीमिवाचरन्ति । मदिरामदविहलवाज्जननीजाययोराचारव्यत्ययेन व्यवहरन्तीत्यर्थः ॥९॥ तथा
॥३१
॥