________________
योग- I शास्त्रम्
तृतीय प्रकाश ॥३१२॥
॥३१॥
तदेतद्यावज्जीव वा सद्भुतं गृहमेधिनाम् । चतुर्मासादिनियमादथवा स्वल्पकालिकम् ॥१॥ सदा सामायिकस्थानां यतीनां तु जितात्मनाम् । न दिशि कचन स्यातां विरत्यविरती इमे ॥२॥ चारणानां हि गमनं यचं मेरुमूर्द्धनि । तिर्यग्ररुचकशैले च नैषां दिग्विरतिस्ततः ॥३॥ गन्तुं सर्वासु यो दिक्षु विदध्यादवधि सुधीः । स्वर्गादौ निरवधयो जायन्ते तस्य सम्पदः ॥४॥३॥
द्वितीयं गुणव्रतमाहभोगोपभोगयोःसंख्या शक्त्या यत्र विधीयते । भोगोपभोगमानं तद् द्वैतीयीकं गुणव्रतम् ॥४॥
भोगोपभोगयोर्वक्ष्यमाणलक्षणयोः संख्या परिमाणं यत्र व्रते विधीयते, कया ? शक्या शरीरमनसोरनाबाधया, तद्भोगोपभोगमानं नाम गुणवतं, द्वितीयमेव द्वैतीयीकम् ; स्वार्थे टीकण ॥४॥
भोगोपभोगयोलक्षणमाहसकृदेव भुज्यते यः स भोगोऽन्नसगादिकः । पुनःपुनः पुनौग्य उपभोगोऽङ्गनादिकः ॥५॥
सकृदेव एकवारमेव, भुज्यते सेव्यते इति भोगः, अनमोदनादि. खग्माल्यं, आदिशब्दात्ताम्बूलविलेपनोद्वर्त्तनधूपनस्नानपानादिपरिग्रहः । पुनःपुनरनेकवारं, भोग्यः सेव्यः, अङ्गना वनिता, आदिशब्दाद्वस्त्रालङ्कारगृहशयनासनवाहनादिपरिग्रहः ॥५॥
इदं च भोगोपभोगव्रतं भोक्तुं योग्येषु परिमाणकरणेन भवति, इतरेषु तु वर्जनेनेति श्लोकद्वयेन तर्जनीयानाह